________________
गुणाऽऽभासस्त्वकल्याणमित्रयोगेन कश्चन । अनिवृत्ताऽऽग्रहत्वेनाऽभ्यन्तरज्वरसन्निभः ।।२८।। मुग्धः सद्योगतो धत्ते गुणं दोषं विपर्ययात् । स्फटिको नु विधत्ते हि शोण-श्यामसुमत्विषम् ।।२९।। यथौषधीषु पीयूषं द्रुमेषु स्वर्दुमो यथा । गुणेष्वपि सतां योगस्तथा मुख्य इहेष्यते ॥३०।। 'विनैनमतिमूढानां येषां योगोत्तमस्पृहा । तेषां हन्त विना नावमुत्तितीर्षा महोदधेः ।।३१।। तन्मित्रायां स्थितो दृष्टौ सद्योगेन गरीयसा ।
समारुह्य गुणस्थानं परमानन्दमश्नुते ।।३२।। ।। शिष्टा सप्तश्लोकी सुगमा ।।२६-२७-२८-२९-३०-३१-३२।।
।। इति मित्राद्वात्रिंशिका ।।२१।।
२१/३२
।।३७७।।
।।
१. मुद्रितप्रतौ 'विनैनं मति...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org