SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ता रा दि Is p त्र य द्वा त्रिं शि का २२/२ Jain Education International 'तारायां तु मनाक् स्पष्टं दर्शनं नियमाः शुभा । अनुद्वेगो हितारम्भे जिज्ञासा तत्त्वगोचरा ।। १ । तारायामिति । तारायां पुनर्दृष्टौ मनाग् = ईषत् स्पष्टं मित्राऽपेक्षया दर्शनम् । शुभाः प्रशस्ता नियमा वक्ष्यमाणा इच्छादिरूपाः । तथा हितारम्भे पारलौकिकप्रशस्तानुष्ठानप्रवृत्तिलक्षणे अनुद्वेगः । तथा तत्त्वगोचरा तत्त्वविषया जिज्ञासा ज्ञातुमिच्छा, अद्वेषत एव तत्प्रतिपत्त्याऽऽनुगुण्यात् ।। १ ।। = ।। अथ तारादित्रयद्वात्रिंशिका ।।२२।। मित्रानिरूपणानन्तरं तारादित्रयं निरूपयन्नाह = = नियमाः शौच - सन्तोषौ स्वाध्याय - तपसी अपि । देवताप्रणिधानं च योगाचार्यैरुदाहृताः ।। २ ।। नियमा इति । शौचं = शुचित्वं तद् द्विविधं, बाह्यमाभ्यन्तरं च । बाह्यं मृज्जलादिभिः कायप्रक्षालनं, आभ्यन्तरं मैत्र्यादिभिश्चित्तमलप्रक्षालनम् । सन्तोषः = सन्तुष्टिः । स्वाध्यायः प्रणवपूर्वाणां मन्त्राणां जपः । तपः कृच्छ्र चान्द्रायणादि । देवताप्रणिधानं = ईश्वरप्रणिधानं सर्वक्रियाणां फलनिरपेक्षतया ईश्वरसमर्पणलक्षणम् । एते योगाचार्यैः = पतञ्जल्यादिभिर्नियमा उदाहृताः । १. हस्तादर्शे 'तरायां' इत्यशुद्धः पाठः । = For Private & Personal Use Only ।।३७८ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy