SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ता रा दि Is p त्र य द्वा त्रिं शि का २२/२ Jain Education International 'तारायां तु मनाक् स्पष्टं दर्शनं नियमाः शुभा । अनुद्वेगो हितारम्भे जिज्ञासा तत्त्वगोचरा ।। १ । तारायामिति । तारायां पुनर्दृष्टौ मनाग् = ईषत् स्पष्टं मित्राऽपेक्षया दर्शनम् । शुभाः प्रशस्ता नियमा वक्ष्यमाणा इच्छादिरूपाः । तथा हितारम्भे पारलौकिकप्रशस्तानुष्ठानप्रवृत्तिलक्षणे अनुद्वेगः । तथा तत्त्वगोचरा तत्त्वविषया जिज्ञासा ज्ञातुमिच्छा, अद्वेषत एव तत्प्रतिपत्त्याऽऽनुगुण्यात् ।। १ ।। = ।। अथ तारादित्रयद्वात्रिंशिका ।।२२।। मित्रानिरूपणानन्तरं तारादित्रयं निरूपयन्नाह = = नियमाः शौच - सन्तोषौ स्वाध्याय - तपसी अपि । देवताप्रणिधानं च योगाचार्यैरुदाहृताः ।। २ ।। नियमा इति । शौचं = शुचित्वं तद् द्विविधं, बाह्यमाभ्यन्तरं च । बाह्यं मृज्जलादिभिः कायप्रक्षालनं, आभ्यन्तरं मैत्र्यादिभिश्चित्तमलप्रक्षालनम् । सन्तोषः = सन्तुष्टिः । स्वाध्यायः प्रणवपूर्वाणां मन्त्राणां जपः । तपः कृच्छ्र चान्द्रायणादि । देवताप्रणिधानं = ईश्वरप्रणिधानं सर्वक्रियाणां फलनिरपेक्षतया ईश्वरसमर्पणलक्षणम् । एते योगाचार्यैः = पतञ्जल्यादिभिर्नियमा उदाहृताः । १. हस्तादर्शे 'तरायां' इत्यशुद्धः पाठः । = For Private & Personal Use Only ।।३७८ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy