________________
En
यदुक्तं- “शौच-सन्तोष-तपः-स्वाध्यायेश्वरप्रणिधानानि नियमाः" इति (योगसूत्र २- । ।। ३२) ।।२।।
शौचभावनया स्वागजुगुप्साऽन्यैरसङ्गमः ।
सत्त्वशुद्धिः सौमनस्यैकाग्र्याऽक्षजययोग्यता ।।३।। शौचेति । शौचस्य भावनया ( शौचभावनया) स्वाङ्गस्य = स्वकायस्य कारणरूपपर्यालोचनद्वारेण जुगुप्सा = घृणा (=स्वाङ्गजुगुप्सा) भवति “अशुचिरयं कायो' नाऽत्राऽऽग्रहः कर्तव्यः" इति। तथा च अन्यैः कायवद्भिः असङ्गमः = तत्सम्पर्कपरिवर्जनमित्यर्थः । यः किल स्वमेव कायं जुगुप्सते तत्तदवद्यदर्शनात्, स कथं परकीयैस्तथाभूतैः कायैः संसर्गमनुभवति? तदुक्तं- "शौचात्स्वाङ्गे जुगुप्सा, परैरसंसर्गः" (योगसूत्र २-४०) ।
तथा सुसत्त्वस्य प्रकाशसुखात्मकस्य शुद्धी रजस्तमोभ्यामनभिभवः (=सत्त्वशुद्धिः) । सौमनस्यं = खेदाऽननुभवेन मानसी प्रीतिः, एकाग्र्यं = नियते विषये चेतसः स्थैर्य, अक्षाणां = इन्द्रियाणां जयो = विषयपराङ्मुखानां स्वात्मन्यवस्थानं, योग्यता चात्मदर्शने विवेकख्यातिरूपे समर्थत्वम् । एतावन्ति फलानि शौचभावनयैव भवन्ति । तदुक्तं "सुसत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयाऽऽत्मदर्शनयोग्यत्वानि चेति” (योगसूत्र २-४१)।।३।।। |||३७९॥ १. हस्तादर्श 'कालो' इत्यशुद्धः पाठः । २. मुद्रितप्रती स्वयमेव' इत्यशुद्धः पाठः । ३. मुद्रितप्रतो ....पराङ्मुखाना' इत्यशुद्धः पाठः ।
का
२२/३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org