________________
Ents
सन्तोषादुत्तमं सौख्यं स्वाध्यायादिष्टदर्शनम् ।
'तपसोऽङ्गाऽक्षयोः सिद्धिः समाधिः प्रणिधानतः ।।४।। सन्तोषादिति। सन्तोषात् स्वभ्यस्तात् योगिन उत्तमम् = अतिशयितं सौख्यं भवति, यस्य बाह्येन्द्रियप्रभवं सुखं शतांशेनाऽपि न समं। तदाह- “सन्तोषादनुत्तमः सुखलाभः" (योगसूत्र २-४२)। .
स्वाध्यायात् स्वभ्यस्तात् इष्टदर्शनं = जप्यमानमन्त्राभिप्रेतदेवतादर्शनं भवति । तदाह"स्वाध्यायादिष्टदेवतासंप्रयोगः” (योगसूत्र २-४४)। तपसः स्वभ्यस्तात् क्लेशाद्यशुद्धिक्षयद्वारा अङ्गाऽक्षयोः = कायेन्द्रिययोः सिद्धिः, यथेच्छ मणुत्वमहत्त्वादिप्राप्ति-सूक्ष्मव्यवहितविप्रकृष्टदर्शनसामर्थ्यलक्षणोत्कर्षः स्यात् । यथोक्तं- “कायेन्द्रियसिद्धिरशुद्धि क्षयात्तपसः” (योगसूत्र २-४३)।
प्रणिधानतः = ईश्वरप्रणिधानात् समाधिः स्यात्, ईश्वरभक्त्या प्रसन्नो हीश्वरोऽन्तरायरूपान् क्लेशान् परिहृत्य समाधिमुद्बोधयतीति। यथोक्तं- “समाधिसिद्धिरीश्वरप्रणिधानादिति" (योगसूत्र २-४५)। तपःस्वाध्यायेश्वरप्रणिधानानां त्रयाणामपि च शोभनाऽध्यवसायलक्षणत्वेन क्लेशकार्यप्रतिबन्धद्वारा 'समाध्यनुकूलत्वमेव श्रूयते । यथोक्तं- “तपःस्वाध्यायेश्वरप्रणिधानानि १. हस्तादर्श 'तपःसौगा' इत्यशुद्धः पाठः । २.हस्तादर्श- मुद्रितप्रत्यादौ ' शुचि..' इति पाठः । परं योगसूत्रानुसारेण '..शुद्धि..' इति पाठः सम्यक् । ३.मुद्रितप्रतौ 'यथेत्थिमि'त्यशुद्धः पाठः । हस्तादर्श च 'यषेच्छ' इत्यशुद्धः पाठः। ४. हस्तादर्श 'प्राप्ति' पदं नास्ति । ५. मुद्रितप्रतौ '..रशुचिक्ष..' इति पाठः । ६. 'समा क्.....' इत्यशुद्धः पाठो मुद्रितप्रतौ।
२२/४
।।३८०।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org