________________
।। क्रियायोगः (योगसूत्र २-१) समाधिभावनार्थः क्लेशतनुकरणार्थश्चेति" (योगसूत्र २-२)।।४।।
विज्ञाय नियमानेतानेवं योगोपकारिणः ।
अत्रैतेषु रतो दृष्टौ भवेदिच्छादिकेषु हि ॥५॥ विज्ञायेति । एतान् = शौचादीन् नियमान् एवं = स्वाङ्गजुगुप्सादिसाधकत्वेन योगोपकारिणः = समाधिनिमित्तान् विज्ञाय अत्र = तारायां दृष्टावेतेषु इच्छादिकेषु हि नियमेषु रतो भवेत् तथाज्ञानस्य तथारुचिहेतुत्वात् । तदत्र काचित्प्रतिपत्तिः प्रदर्शिता
ER FM
भवत्यस्यामविच्छिन्ना प्रीतिर्योगकथासु च ।
यथाशक्त्युपचारश्च' बहुमानश्च योगिषु ॥६॥ भवतीति । अस्यां दृष्टौ अविच्छिन्ना = भावप्रतिबन्धसारतया विच्छेदरहिता योगकथासु प्रीतिर्भवति । योगिषु = भावयोगिषु यथाशक्ति = स्वशक्त्यौचित्येन उपचारश्च ग्रासादिसम्पादनेन, बहुमानश्च अभ्युत्थानगुणगानादिना । अयं च शुद्धपक्षपातपुण्यविपाका-द्योगवृद्धि लाभान्तर-शिष्टसम्मतत्व-क्षुद्रोपद्रवहान्यादिफल इति' ध्येयम् ।।६।।
भयं न भवजं तीनं हीयते नोचितक्रिया ।
न चानाभोगतोऽपि स्यादत्यन्तानुचितक्रिया ।।७।। । १. हस्तादर्श 'बासस्य' इत्यशुद्धः पाठः । २. हस्तादर्श 'इति' पदं नास्ति ।
।।३८१।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org