________________
भयमिति । भवजं = संसारोत्पन्नं तीव्र भयं न भवति, तथाऽशुभाऽप्रवृत्तेः । उचिता क्रिया क्वचिदपि कार्ये न हीयते, सर्वत्रैव धर्माऽऽदरात् । न चाऽनाभोगतोऽपि = अज्ञानादपि अत्यन्ताऽनुचितक्रिया साधुजननिन्दादिका स्यात् ।।७।।
स्वकृत्ये विकले त्रासो जिज्ञासा सस्पृहाधिके ।
दुःखोच्छेदाऽर्थिनां चित्रे कथन्ताधीः परिश्रमे।।८।। स्वकृत्य इति । स्वकृत्ये = स्वाचारे कायोत्सर्गकरणादौ विकले = विधिहीने त्रासो 'हा 'विराधकोऽह'मित्याशयलक्षणः अधिके = स्वभूमिकापेक्षयोत्कृष्टे आचार्यादिकृत्ये जिज्ञासा 'कथमेतदेवं स्यादिति' सस्पृहा = अभिलाषसहिता ।
दुःखोच्छेदार्थिनां = संसारक्लेशजिहासूनां चित्रे = नानाविधेपरिश्रमे = तत्तन्नीतिप्रसिद्धिक्रियायोगे कथन्ताधीः = कथम्भावबुद्धिः । कथं नानाविधा मुमुक्षुप्रवृत्तिः कात्स्येन ज्ञातुं शक्यते ? इति । तदाह- "दुःखरूपो भवः सर्व उच्छेदोऽस्य कुतः कथम् । चित्रा सतां प्रवृत्तिश्च साऽशेषा ज्ञायते कथम् ।।” (योगदृष्टिसमुच्चय ४७) ।।८।।
नाऽस्माकं महती प्रज्ञा सुमहान् शास्त्रविस्तरः ।
शिष्टाः प्रमाणमिह तदित्यस्यां मन्यते सदा ॥९॥ नेति । 'नाऽस्माकं महती प्रज्ञा = अविसंवादिनी बुद्धिः, स्वप्रज्ञाकल्पिते विसंवाद
।।३८२।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org