________________
दर्शनात् । तथा सुमहान् = अपारः शास्त्रस्य विस्तरः (=शास्त्रविस्तरः) । तत् = तस्मात् शिष्टाः = साधुजनसम्मताः प्रमाणं इह = प्रस्तुतव्यतिकरे, यत्तैराचरितं तदेव यथाशक्ति सामान्येन कर्तुं युज्यत' इत्यर्थः इति = एतत् अस्यां = दृष्टौ' मन्यते सदा = निरन्तरम् ।।९।।
सुखस्थिरासनोपेतं बलायां दर्शनं दृढम् ।
परा च तत्त्वशुश्रूषा न क्षेपो योगगोचरः ।।१०।। ___ सुखमिति। सुखं = अनुद्वेजनीयं स्थिरं च = निष्कम्पं यदासनं तेन उपेतं = सहितं (=सुखस्थिरासनोपेतं), उक्तविशेषणविशिष्टस्यैवाऽऽसनस्य योगाऽङ्गत्वात्। यत्पतञ्जलिः"स्थिरसुखमासनमिति” (योगसूत्र २-४६) बलायां दृष्टौ दर्शनं दृढं काष्ठाऽग्निकणोद्योतसममिति कृत्वा परा = प्रकृष्टा च तत्त्वशुश्रूषा = तत्त्वश्रवणेच्छा जिज्ञासासम्भवा' । न क्षेपो योगगोचरः, तदनुद्वेगे उद्वेगजन्यक्षेपाऽभावात् ।।१०।।
असत्तृष्णात्वराऽभावात् स्थिरं च सुखमासनम् ।
प्रयत्नश्लथताऽऽनन्त्यसमापत्तिबलादिह ।।११।। असदिति । असत्तृष्णायाः = असुन्दरलालसायाः त्वरायाश्चाऽन्याऽन्यफलौत्सुक्यलक्षणाया ।।।।३८३ ।। १. हस्ताद” 'दृष्टं' इत्यशुद्धः पाठः । २. मुद्रितप्रत-हस्तादर्शेषु '....भवात्' इति पाठः । परं सन्दर्भानुसारेणात्र '...भवा' इति पाठः यद्वा '...भवायाः' इति पाठः शुद्ध आभाति । ३. हस्तादर्श '...तृष्णा अ' इति त्रुटितः पाठः ।
२२/११
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org