________________
EF
/ अभावात् (=असत्तृष्णात्वराऽभावात्) स्थिरं सुखं चाऽऽसनं भवति। प्रयत्नस्य श्लथता
= 'अक्लेशेनैवासनं बनामी'तीच्छायामङ्गलाघवेन तन्निबन्धः, आनन्त्ये चाऽऽकाशादिगते समापत्तिः = अवधानेन मनस्तादात्म्याऽऽपादनं दुःखहेतुदेहाऽहंकाराऽभावफलं तबलात् (=प्रयत्नश्लथताऽऽनन्त्यसमापत्तिबलात्) इह = बलायां दृष्टौ भवति । यथोक्तं- “प्रयत्नशैथिल्यानन्त्यसमापत्तिभ्यां” (योगसूत्र २-४७) ।।११।।
अतोऽन्तरायविजयो द्वन्द्वाऽनभिहतिः परा' ।
"दृष्टदोषपरित्यागः प्रणिधानपुरःसरः५ ।।१२।। अत इति। अतो यथोक्तादासनादन्तरायाणामङ्गमेजयादीनां विजयः (=अन्तरायविजयः)। द्वन्दैः शीतोष्णादिभिरनभिहतिर्दःखाऽप्राप्तिः (=द्वन्द्वाऽनभिहतिः) परा = आत्यन्तिकी 'ततो द्वन्द्वानभिघात' (योगसूत्र २-४८) इत्युक्तेः । दृष्टानां च दोषाणां मनःस्थितिजनितक्लेशादीनां परित्यागः (=दृष्टदोषपरित्यागः) प्रणिधानपुरस्सरः = 'प्रशस्ताऽवधानपूर्वः ।।१२।।
कान्ताजुषो विदग्धस्य दिव्यगेयश्रुतौ यथा । २२/१३
यूनो भवति शुश्रूषा तथास्यां तत्त्वगोचरा ।।१३।। १. हस्तादर्श ‘श्लघधता' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'श्लघता' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ '...रबाधनेन...' इत्यशुद्धः पाठः । ३. हस्तादर्शादौ 'तिस्तथा' इति पाठः । परं व्याख्यानुसारेण 'तिः परा' इति पाठः सम्यक् । ४. हस्तादर्श 'दृष्टतोष...' इत्यशुद्धः पाठः । ५. हस्तादर्श '...मुरस्सरम्' इति पाठः । ६. हस्तादर्श 'प्रस्ता...' इत्यशुद्धः पाठः ।
के
।।३८४||
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org