________________
Eur
कान्ते ति । कान्ताजुषः = कामिनीसहितस्य विदग्धस्य = गेयनीतिनिपुणस्य दिव्यस्य । । = अतिशयितस्य गेयस्य किन्नरादिसम्बन्धिनः श्रुतौ =श्रवणे (=दिव्यगेयश्रुतौ) यथा यूनो = यौवनगामिनः कामिनो भवति 'शुश्रूषा, तथाऽस्यां = बलायां तत्त्वगोचरा 'शुश्रूषा ॥१३॥
अभावेऽस्याः श्रुतं व्यर्थं बीजन्यास इवोषरे ।
श्रुताऽभावेऽपि भावेऽस्या ध्रुवः कर्मक्षयः पुनः ।।१४।। ___ अभाव इति । अस्या = उक्तलक्षणशुश्रूषाया अभावे। श्रुतं = अर्थश्रवणं व्यर्थं, ऊपर इव बीजन्यासः। श्रुताऽभावेऽपि = अर्थश्रवणाभावेऽपि अस्याः = उक्तशुश्रूषाया भावे पुनः ध्रुवो = निश्चितः कर्मक्षयः । अतोऽन्वय-व्यतिरेकाभ्यामियमेव प्रधानफलकारणमिति भावः ।।१४।।
योगारम्भ इहाऽक्षेपात् स्यादुपायेषु कौशलम् ।
उप्यमाने तरौ दृष्टा पयःसेकेन पीनता ।।१५।। ___ योगेति । इह बलायां अक्षेपात् = अन्यत्र चित्ताऽन्यासाद् योगारम्भे उपायेषु = योगसाधनेषु कौशलं = दक्षत्वं (स्यात्=) भवति, उत्तरोत्तरमतिवृद्धियोगादिति भावः । ॥३८५।। १. मुद्रितप्रतो .....गामिनो का...' इत्यशुद्धः पाठः । २. हस्तादर्श ...सुश्रूषा' इत्यशुद्धः पाठः । ३. मुद्रितप्रती 'चित्ताभ्यासादि'त्यशुद्धः पाठः ।
२२/१५
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org