________________
EFF
उप्यमाने तरौ पयःसेकेन पीनता दृष्टा, तद्वदिहाप्यक्षेपेणैवमतिपीनत्वलक्षणमुपायकौशलं स्यात्। 'अन्यथा पूर्णपयःसेकं विनोप्तस्य तरोरिव प्रकृताऽनुष्ठानस्य कार्यमेवाऽकौशललक्षणं स्यादिति भावः ।।१५।।
प्राणायामवती दीप्रा योगोत्थानविवर्जिता । .
तत्त्वश्रवणसंयुक्ता सूक्ष्मबोधमनाश्रिता ॥१६॥ प्राणायामवतीति । प्राणायामवती = प्राणायामसहिता दीपा दृष्टिः । योगोत्थानेन विवर्जिता (=योगोत्थानविवर्जिता), प्रशान्तवाहितालाभात् । तत्त्वश्रवणेन संयुक्ता (=तत्त्वश्रवणसंयुक्ता) शुश्रूषा-फलभावात् । सूक्ष्मबोधेन विवर्जिता (=सूक्ष्मबोधमनाश्रिता) वेद्यसंवेद्यपदाऽप्राप्तेः ।।१६।।
रेचकः स्याबहिर्वृत्तिरन्तवृत्तिश्च पूरकः ।
कुम्भकः स्तम्भवृत्तिश्च प्राणायामनिधेत्ययम् ।।१७।। ___ रेचक इति। बहिर्वृत्तिः = *श्वासो' रेचकः स्यात् । अन्तर्वृत्तिश्च• = प्रश्वासः पूरकः। स्तम्भवृत्तिश्च कुम्भकः, यस्मिन् जलमिव कुम्भे निश्चलतया प्राणोऽवस्थाप्यते । इत्ययं त्रिधा प्राणायामः = प्राणगतिविच्छेदः। यदाह- "श्वासप्रश्वासयोर्गतिविच्छेदः प्रा
२२/१७
।।३८६।।
१. हस्तादर्श 'अन्य पू...' इति त्रुटितः पाठः । २. मुद्रितप्रतौ '...बाध..' इत्यशुद्धः पाठः । ३. हस्तादर्श 'पूर्वगः' इत्यशुद्धः पाठः । ४. हस्तादर्श 'प्रश्वास' इत्यशुद्धः पाठः । ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति ।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org