SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Eduta whos ता रा दि त्र य द्वा त्रिं शि का २२/१८ Jain Education International णायामः" इति ( योगसूत्र २ - ४९ ) । अयं च नासाद्वादशाऽन्ताऽऽदिदेशेन, षड्विंशतिमात्रादिप्रमाणकालेन सङ्ख्यया च ' इयतो वारान् कृत एतावद्भिश्च श्वासप्रश्वासैः प्रथम उद्घातो भवती'त्यादिलक्षणया' उपलक्षितो दीर्घसूक्ष्मसंज्ञ आख्यायते । यथोक्तं- " स तु बाह्याभ्यन्तरस्तम्भवृत्तिर्देश-काल- संख्याभिः परिदृष्टो दीर्घसूक्ष्मसंज्ञ" ( योगसूत्र २-५० ) इति । बाह्याभ्यन्तरविषयौ द्वादशान्त- हृदयनाभिचक्रादिरूपा वपर्यालोच्यैव सहसा तप्तोपलनिपतितजलन्यायेन युगपत् स्तम्भवृत्त्या निष्पद्यमानात् कुम्भकात्तत्पर्यालोचनपूर्वकत्वमात्रभेदेन च चतुर्थोऽपि प्राणायाम इष्यते । यथोक्तं- “बाह्याऽऽभ्यन्तरविषयाऽऽक्षेपी चतुर्थ " इति ( योगसूत्र २ - ५१) ।।१७।। धारणायोग्यता तस्मात् प्रकाशाऽऽवरणक्षयः । अन्यैरुक्तः क्वचिच्चैतद्युज्यते योग्यताऽनुगम् ।। १८ ।। धारणेति । तस्मात् = प्राणायामात् धारणानां योग्यता ( = धारणायोग्यता), प्राणायामेन स्थिरीकृतं चेतः सुखेन नियतदेशे धार्यत इति । तदुक्तं- “ धारणासु च योग्यता मनसः " ( योगसूत्र २-५३ ) इति । तथा प्रकाशस्य चित्तसत्त्वगतस्य यदावरणं क्लेशरूपं तत्क्षयः (=प्रकाशाऽऽवरणक्षयः)। तदुक्तं- “ ततः क्षीयते प्रकाशाऽऽवरणमिति” ( योगसूत्र २-५२ ) । १. मुद्रितप्रतौ सर्वत्र .... लक्षणोप' इत्यशुद्धः पाठः । २ मुद्रितप्रतौ ' ...विषयो...' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ '... रूप एव पर्या...' इत्यशुद्धः पाठः । For Private & Personal Use Only ।।३८७ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy