________________
Eduta whos
ता
रा
दि
त्र
य
द्वा
त्रिं
शि
का
२२/१८
Jain Education International
णायामः" इति ( योगसूत्र २ - ४९ ) । अयं च नासाद्वादशाऽन्ताऽऽदिदेशेन, षड्विंशतिमात्रादिप्रमाणकालेन सङ्ख्यया च ' इयतो वारान् कृत एतावद्भिश्च श्वासप्रश्वासैः प्रथम उद्घातो भवती'त्यादिलक्षणया' उपलक्षितो दीर्घसूक्ष्मसंज्ञ आख्यायते । यथोक्तं- " स तु बाह्याभ्यन्तरस्तम्भवृत्तिर्देश-काल- संख्याभिः परिदृष्टो दीर्घसूक्ष्मसंज्ञ" ( योगसूत्र २-५० ) इति । बाह्याभ्यन्तरविषयौ द्वादशान्त- हृदयनाभिचक्रादिरूपा वपर्यालोच्यैव सहसा तप्तोपलनिपतितजलन्यायेन युगपत् स्तम्भवृत्त्या निष्पद्यमानात् कुम्भकात्तत्पर्यालोचनपूर्वकत्वमात्रभेदेन च चतुर्थोऽपि प्राणायाम इष्यते । यथोक्तं- “बाह्याऽऽभ्यन्तरविषयाऽऽक्षेपी चतुर्थ " इति ( योगसूत्र २ - ५१) ।।१७।।
धारणायोग्यता तस्मात् प्रकाशाऽऽवरणक्षयः ।
अन्यैरुक्तः क्वचिच्चैतद्युज्यते योग्यताऽनुगम् ।। १८ ।।
धारणेति । तस्मात् = प्राणायामात् धारणानां योग्यता ( = धारणायोग्यता), प्राणायामेन स्थिरीकृतं चेतः सुखेन नियतदेशे धार्यत इति । तदुक्तं- “ धारणासु च योग्यता मनसः " ( योगसूत्र २-५३ ) इति । तथा प्रकाशस्य चित्तसत्त्वगतस्य यदावरणं क्लेशरूपं तत्क्षयः (=प्रकाशाऽऽवरणक्षयः)। तदुक्तं- “ ततः क्षीयते प्रकाशाऽऽवरणमिति” ( योगसूत्र २-५२ ) ।
१. मुद्रितप्रतौ सर्वत्र .... लक्षणोप' इत्यशुद्धः पाठः । २ मुद्रितप्रतौ ' ...विषयो...' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ '... रूप एव पर्या...' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
।।३८७ ।।
www.jainelibrary.org