________________
अयं अन्यैः पतञ्जल्यादिभिः उक्तः। *भगवत्प्रवचने तु व्याकुलताहेतुत्वेन निषिद्ध एव श्वासप्रश्वासरोधः, यथायोगसमाधानमेव' प्रवृत्तेः श्रेयस्त्वात्, प्राणरोधपलिमन्थस्याऽनतिप्रयोजनत्वात् । तदुक्तं- “उस्सासं ण णिरुंभइ आभिग्गहिओ वि किमु 'चेछाउ । 'सज्जमरणं निरोहे सुहुमुस्सासं च जयणाए।।” (आवश्यकनियुक्ति-१५१०) ___एतच्च = पतञ्जल्याद्युक्तं क्वचित् = पुरुषविशेषे योग्यताऽनुगं = योग्यतानुसारि युज्यते, नानारुचित्वाद्योगिनां, प्राणायामरुचीनां प्राणायामेनाऽपि फलसिद्धेः, स्वरुचिसम्पत्तिसिद्धस्योत्साहस्य योगोपायत्वात । यथोक्तं योगबिन्दौ- "उत्साहान्निश्चयाद्वैर्यात्सन्तोषात्तत्त्वदर्शनात् । मुनेर्जनपदत्यागात् षड्भिर्योगः प्रसिध्यति ।।” (योगबिन्दु ४११) इति। तस्माद्यस्य प्राणवृत्तिनिरोधेनैवेन्द्रियवृत्तिनिरोधस्तस्य तदुपयोग इति तत्त्वम् ।।१८।।
रेचनाद् बाह्यभावानामन्तर्भावस्य पूरणात् ।
कुम्भनान्निश्चिताऽर्थस्य प्राणायामश्च भावतः ।।१९।। रेचनादिति । बाह्यभावानां = कुटुम्ब-दारादिममत्वलक्षणानां रेचनात्, अन्तर्भावस्य = श्रवणजनितविवेकलक्षणस्य पूरणात्, निश्चिताऽर्थस्य कुम्भनात् = स्थिरीकरणात् च भावतः प्राणायामः। अयमेवाऽव्यभिचारेण योगाङ्गम् । १. मुद्रितप्रतौ ....नमव' इत्यशुद्धः पाठः । २. हस्तादर्श 'उम्गाहिओ' इति पाठः । ३. मुद्रितप्रतौ 'अचेट्टा' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ ‘पसज्ज..' इत्यशुद्धः पाठः । हस्तादर्श च ‘एसज्ज...' इत्यशुद्धः पाठः । आवश्यकनियुक्त्यनुसारेण शुद्धः पाठोऽत्र गृहीतोऽस्माभिः । ...... चिह्नद्वयमध्यवर्ती पाठो हस्ताद” नास्ति ।
२२/१९
।।३८८॥
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org