________________
अत एवोक्तं- 'प्राणायामवती चतुर्थाङ्गभावतो भावरेचकादिभावात्' (योगदृष्टिसमुच्चय || ॥ ५७ वृ.) इति ।।१९।।
प्राणेभ्योऽपि गुरुर्धर्मः 'इत्यतोऽस्यां विनिश्चयात् ।
प्राणांस्त्यजति' धर्मार्थं, न धर्म प्राणसङ्कटे ॥२०॥ प्राणेभ्योऽपीति । अस्यां = दीप्रायां 'प्राणेभ्योऽपि = इन्द्रियादिभ्योऽपि गुरुः = महत्तरो धर्मः' इति अतः = इत्यतो भावप्राणायामतो विनिश्चयाद् धर्मार्थं प्राणांस्त्यजति, तत्रोत्सर्गप्रवृत्तेः। अत एव न धर्मं त्यजति प्राणसङ्कटे = प्राणकष्टे ।।२०।।
पुण्यबीजं नयत्येवं तत्त्वश्रुत्या सदाशयः ।।
भवक्षाराम्भसस्त्यागाद् वृद्धिं 'मधुरवारिणा ।।२१॥ पुण्यबीजमिति । एवं धर्मस्य प्राणेभ्योऽप्यधिकत्वप्रतिपत्त्या तत्रोत्सर्गप्रवृत्त्या तत्त्वश्रुत्या = तथातत्त्वश्रवणेन मधुरवारिणा सदाशयः = शोभनपरिणामः भवलक्षणस्य क्षाराम्भ
२२/२१
१. मुद्रितप्रतौ 'प्राणायामविनि...' इत्यशुद्धः पाठः । हस्तादर्श च 'इत्येतस्यां विनि...' इति पाठः । परं व्याख्यानुसारेणात्र 'इत्यतोऽस्यां विनि' इति पाठः सङ्गच्छते । अधुनोपलब्धे हस्तादर्श ‘इत्यतोस्यां' इति अवग्रहशून्यः पाठ उपलब्धः । २. मुद्रितप्रतौ हस्तादर्श च 'त्यजन्ति' इति पाठः । परं वृत्त्यनुसारेण 'त्यजति' इति सङ्गच्छते । ३. हस्तादर्श 'वृष्टिं' इत्यशुद्धः पाठः । ४. हस्तादर्श 'सागरधारिणा' इत्यशुद्धः पाठः । ५. हस्तादर्श 'वारिण...' इत्यशुद्धः पाठः । अन्यत्र च हस्तादर्श च 'मधुरसदा...' इति त्रुटितः पाठः ।
|||३८९।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org