________________
ता
रा
ds who
त्र
य
द्वा
त्रिं
शि
का
२२०/२३
Jain Education International
सस्त्यागात् (=भवक्षाराऽम्भसस्त्यागात्) पुण्यबीजं वृद्धिं नयति । यथा हि मधुरोदकयोगतस्तन्माधुर्याऽनवगमेऽपि बीजं प्ररोहमादत्ते, तथा तत्त्वश्रुतेरचिन्त्यसामर्थ्यात्तत्त्वविषयस्पष्टसंवित्त्यभावेऽपि अतत्त्वश्रवणत्यागेन तद्योगात् पुण्यवृद्धिः स्यादेवेति भाव: ।। २१ ।। तत्त्वश्रवणतस्तीव्रा गुरुभक्तिः सुखाssवहा ।
समापत्त्यादिभेदेन तीर्थकृद्दर्शनं ततः ।। २२ ।।
=
तत्त्वेति । तत्त्वश्रवणतः तीव्रा = उत्कटा गुरौ तत्त्व श्रावयितरि भक्तिः = आराध्यत्वेन प्रतिपत्तिः (= गुरुभक्तिः) सुखाऽऽवहा = उभयलोकसुखकरी । ततो = गुरुभक्तेः समापत्त्यादिभेदेन तीर्थकृद्दर्शनं भगवत्साक्षात्कारलक्षणं भवति । तदुक्तं- “गुरुभक्तिप्रभावेन तीर्थकृद्दर्शनं मतम् । समापत्त्यादिभेदेन निर्वाणैकनिबन्धनम् ।। " ( यो दृ.स. ६४ ) समापत्तिरत्र ध्यानजस्पर्शना भण्यते, आदिना तन्नामकर्मबन्ध - विपाक-तद्भावापत्त्युपपत्तिपरिग्रहः ।। २२ ।। कर्मवज्रविभेदेनानन्तधर्मकगोचरे ।
वेद्यसंवेद्यपदजे बोधे सूक्ष्मत्वमत्र न ।। २३ ।।
कर्मेति । कर्मैव वज्रं अतिदुर्भेदत्वात् तस्य विभेदेन अनन्तधर्मकं = भेदाभेदनित्यत्वाऽनित्यत्वाद्यनन्तधर्मशबलं यद्वस्तु तद्गोचरे वस्तुनस्तथात्वपरिच्छेदिनि (=कर्मवज्रविभेदेनानन्तधर्मकगोचरे) वेद्य-संवेद्यपदजे बोधे सूक्ष्मत्वं यत्तद् अत्र = दीप्रायां दृष्टौ न भवति, तदधोभूमिकारूपत्वादस्याः । तदुक्तं- “भवाम्भोधिसमुत्तारात् कर्मवज्रविभेदतः ।
=
For Private & Personal Use Only
।। ३९० ।।
www.jainelibrary.org