SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ता रा दि त्र य bhes its द्वा शि का १२/२५ Jain Education International ज्ञेयव्याप्तेश्च कार्त्स्न्येन सूक्ष्मत्वं नायमत्र तु || ” ( योगदृष्टिसमुच्चय ६६ ) || २३।। अवेद्यसंवेद्यपदं चतसृष्वासु दृष्टिषु । पक्षिच्छायाजलचरप्रवृत्त्याभं यदुल्बणम् ।। २४ ।। अवेद्येति । आसु मित्राद्यासु चतसृषु दृष्टिषु यद् = यस्मात् अवेद्यसंवेद्यपदं उल्बणं अधिकम् । पक्षिच्छायायां जलसंसर्गिन्यां 'पक्षिधिया जलचरप्रवृत्तिरिवाभा वेद्यसंवेद्यपदसम्बन्धिनी यत्र तत्तथा (= पक्षिच्छायाजलचरप्रवृत्त्याभं) । तत्र हि न तात्त्विकं वेद्यसंवेद्यपदं, किं त्वारोपाधिष्ठानसंसर्गितयाऽतात्त्विकं । = = अत एवाऽनुल्बणमित्यर्थः । एतदपि पदमासु चरमयथाप्रवृत्तकरणेन एवेत्याचार्याः । तदिदमभिप्रेत्योक्तं- “अवेद्यसंवेद्यपदं यस्मादासु तथोल्बणम् । पक्षिच्छायाजलचरप्रवृत्त्याभमतः परम् ।। " ( योगदृष्टिसमुच्चय ६७ ) ।।२४।। वेद्यं संवेद्यते यस्मिन्नपायादिनिबन्धनम् । पदं तद्वेद्यसंवेद्यमन्यदेतद्विपर्ययात् ।। २५ ।। वेद्यमिति । वेद्यं वेदनीयं = वस्तुस्थित्या तथाभावयोगिसामान्येनाऽविकल्पकज्ञान = १. सर्वत्र प्रतिसु 'जलधिया' इति पाठः । परं 'पक्षिधिया' इति पाठो युज्यते । २. मुद्रितप्रतौ 'वेद्यपदसंवेद्यसं...' इत्यशुद्धः पाठः । हस्तादर्शे च 'वेद्यपदसंवेद्यसंवेद्यसं...' इत्यशुद्धः पाठः । परं 'वेद्यसंवेद्यपदसं...' इति पाठः शुद्धो भाति । ३. सर्वत्र प्रतिसु 'चरमासु' इति पाठः । परं योगदृष्टिसमुत्च्त्वयवृत्त्यनुसारेणात्र 'पदमासु' इति पाठः समीचीनः प्रतिभाति । ४. हस्तादर्शे 'करणि...' इति पाठः । For Private & Personal Use Only ।।३९१ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy