________________
ता
रा
दि
त्र
य
bhes its
द्वा
शि
का
१२/२५
Jain Education International
ज्ञेयव्याप्तेश्च कार्त्स्न्येन सूक्ष्मत्वं नायमत्र तु || ” ( योगदृष्टिसमुच्चय ६६ ) || २३।। अवेद्यसंवेद्यपदं चतसृष्वासु दृष्टिषु ।
पक्षिच्छायाजलचरप्रवृत्त्याभं यदुल्बणम् ।। २४ ।।
अवेद्येति । आसु मित्राद्यासु चतसृषु दृष्टिषु यद्
=
यस्मात् अवेद्यसंवेद्यपदं उल्बणं अधिकम् । पक्षिच्छायायां जलसंसर्गिन्यां 'पक्षिधिया जलचरप्रवृत्तिरिवाभा वेद्यसंवेद्यपदसम्बन्धिनी यत्र तत्तथा (= पक्षिच्छायाजलचरप्रवृत्त्याभं) । तत्र हि न तात्त्विकं वेद्यसंवेद्यपदं, किं त्वारोपाधिष्ठानसंसर्गितयाऽतात्त्विकं ।
=
=
अत एवाऽनुल्बणमित्यर्थः । एतदपि पदमासु चरमयथाप्रवृत्तकरणेन एवेत्याचार्याः । तदिदमभिप्रेत्योक्तं- “अवेद्यसंवेद्यपदं यस्मादासु तथोल्बणम् । पक्षिच्छायाजलचरप्रवृत्त्याभमतः परम् ।। " ( योगदृष्टिसमुच्चय ६७ ) ।।२४।। वेद्यं संवेद्यते यस्मिन्नपायादिनिबन्धनम् । पदं तद्वेद्यसंवेद्यमन्यदेतद्विपर्ययात् ।। २५ ।।
वेद्यमिति । वेद्यं वेदनीयं = वस्तुस्थित्या तथाभावयोगिसामान्येनाऽविकल्पकज्ञान
=
१. सर्वत्र प्रतिसु 'जलधिया' इति पाठः । परं 'पक्षिधिया' इति पाठो युज्यते । २. मुद्रितप्रतौ 'वेद्यपदसंवेद्यसं...' इत्यशुद्धः पाठः । हस्तादर्शे च 'वेद्यपदसंवेद्यसंवेद्यसं...' इत्यशुद्धः पाठः । परं 'वेद्यसंवेद्यपदसं...' इति पाठः शुद्धो भाति । ३. सर्वत्र प्रतिसु 'चरमासु' इति पाठः । परं योगदृष्टिसमुत्च्त्वयवृत्त्यनुसारेणात्र 'पदमासु' इति पाठः समीचीनः प्रतिभाति । ४. हस्तादर्शे 'करणि...' इति पाठः ।
For Private & Personal Use Only
।।३९१ ।।
www.jainelibrary.org