________________
// ग्राह्यमित्यर्थः संवेद्यते = क्षयोपशमाऽनुरूपं निश्चयबुद्ध्या विज्ञायते यस्मिन् = आशयस्थाने अपायादिनिबन्धनं = नरक-स्वर्गादिकारणं 'स्त्र्यादि तद्वद्यसंवेद्यं पदम् ।
अन्यत्' = अवेद्यसंवेद्यपदम् एतद्विपर्ययात्' = उक्तलक्षणव्यत्ययात् ।
यद्यपि शुद्धं यथावद्वेद्यसंवेदनं माषतुषादावसम्भवि, योग्यतामात्रेण च मित्रादिदृष्टिष्वपि | सम्भवि, तथापि वेद्यसंवेद्यपदप्रवृत्तिनिमित्तं ग्रन्थिभेदजनितो रुचिविशेष एवेति न दोषः ।।२५।।
अपायशक्तिमालिन्यं सूक्ष्मबोधविघातकृत् ।
न वेद्यसंवेद्यपदे वज्रतण्डुलसन्निभे ॥२६॥ अपायेति । अपायशक्तिमालिन्यं = नरकाद्यपायशक्तिमलिनत्वं सूक्ष्मबोधस्य विघातकृत् (=सूक्ष्मबोधविघातकृत्), अपायहेत्वासेवनक्लिष्टबीजसद्भावात्, तस्य सज्ज्ञानावरणक्षयोपशमाऽभावनियतत्वात्, न वेद्यसंवेद्यपदे उक्तलक्षणे वज्रतण्डुलसन्निभे, प्रायो दुर्गतावपि मानसदुःखाऽभावेन तद्वद्वेद्यसंवेद्यपदवतो भावपाकाऽयोगात् । एतच्च व्यावहारिकं वेद्यसंवेद्यपदं भावमाश्रित्योक्तं ।
निश्चयतस्त प्रतिपतितसद्दर्शनानामनन्तसंसारिणां नास्त्येव 'वेद्यसंवेद्यपदभावः । नैश्चयिक२२/२६
तद्वति क्षायिकसम्यग्दृष्टौ श्रेणिकादाविव पुनर्दुर्गत्ययोगेन तप्तलोहपदन्यासतुल्याया अपि १. मुद्रितप्रतौ तु 'स्यादि (हिंसाहिंसादि)' इति पाठोऽशुद्धः । २. हस्तादर्श 'अन्यवेदवेद्य' इत्यशुद्धः पाठः । ३. हस्तादर्श 'विदर्या...' इत्यशुद्धः पाठः । ४. हस्तादर्श 'कृत्' इति नास्ति । ५. हस्तादर्श 'वेद्यपदभावः' इति त्रुटितः पाठः ।
Ey vbo
का
॥३९२।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org