________________
EPF के
पापप्रवृत्तेश्चरमाया एवोपपत्तेः । यथोक्तं- “अतोऽन्यदुत्तरास्वस्मात् पापे कर्माऽऽगसोऽपि हि । तप्तलोहपदन्यासतुल्या वृत्तिः क्वचिद्यदि ।। वेद्यसंवेद्यपदतः संवेगाऽतिशयादिति । चरमैव भवत्येषा पुनर्दुगत्ययोगतः।।” (योगदृष्टिसमुच्चय ७०-७१) इति ।।२६।।
तच्छक्तिः स्थूलबोधस्य बीजमन्यत्र चाऽक्षतम् ।
तत्र यत्पुण्यबन्धोऽपि हन्ताऽपायोत्तरः स्मृतः ॥२७॥ तच्छक्तिरिति । अन्यत्र 'चाऽवेद्यसंवेद्यपदे तच्छक्तिः = अपायशक्तिः स्थूलबोधस्य बीजमक्षतम् = अनभिभूतम् । तत्र = अवेद्यसंवेद्यपदे यत् = यस्मात् पुण्यबन्धोऽपि हन्त ! अपायोत्तरो = विघ्ननान्तरीयकः स्मृतः "तत्पुण्यस्य पापाऽनुबन्धित्वात् ।।२७।।
प्रवृत्तिरपि योगस्य वैराग्यान्मोहगर्भतः ।
प्रसूतेऽपायजननीमुत्तरां मोहवासनाम् ।।२८॥ प्रवृत्तिरपीति । तत्रेति 'प्राक्तनमत्राऽनुषज्यते । तत्र मोहगर्भतो वैराग्यात् योगस्य प्रवृत्तिरपि सद्गुरुपारतन्त्र्याऽभावे अपायजननीमुत्तरां मोहवासनां प्रसूते, मोहमूलाऽनुष्ठानस्य मोहवासनाऽवन्ध्यबीजत्वात् । अतोऽत्र योगप्रवृत्तिरप्यकिञ्चित्करीति भावः ।।२८।।
___ अवेद्यसंवेद्यपदे पुण्यं निरनुबन्धकम् । १. हस्तादर्श ‘च वाद्य...' इत्यशुद्धः पाठः । २. हस्तादर्श 'पायो' इत्यशुद्धः पाठः । ३. हस्ताद” 'विघ्नात्मीयक' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'ततस्तत्पु..' इति पाठः । ५. हस्तादर्श 'प्राक्कृत....' इत्यशुद्धः पाठः । ६. हस्तादर्श 'निरनबंधकं' नास्ति ।
२२/२८
॥३९३।।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org