________________
EF
भवाभिनन्दिजन्तूनां पापं स्यात्सानुबन्धकम् ॥२९॥ अवेद्येति । 'अवेद्यसंवेद्यपदे पुण्यं निरनुबन्धकम् = अनुबन्धरहितं स्यात्, यदि कदाचिन्न स्यात् पापानुबन्धि । सानुबन्धे तत्र ग्रन्थिभेदस्य नियामकत्वात् ।
भवाभिनन्दिनां क्षुद्रत्वादिदोषवतां जन्तूनां (=भवाभिनन्दिजन्तूनां) पापं सानुबन्धकम् = अनुबन्धसहितं स्यात्, रागद्वेषादिप्राबल्यस्य तदनुबन्धाऽवन्ध्यबीजत्वात् ।।२९।।
कुकृत्यं कृत्यमाभाति कृत्यं चाकृत्यमेव हि ।
अत्र व्यामूढचित्तानां कण्डूकण्डूयनादिवत् ॥३०॥ ___ कुकृत्यमिति। कुकृत्यं = प्राणातिपातादि' कृत्यं = करणीयं आभाति । कृत्यं च | = अहिंसादि अकृत्यमेव हि = अनाचरणीयमेव । अत्र = अवेद्यसंवेद्यपदे व्यामूढचित्तानां = मोहग्रस्तमानसानां कण्डूलानां 'कण्डूयनादिवत् (=कण्डूकण्डूयनादिवत्) । आदिना कृम्याकुलस्य
कुष्टिनोऽग्निसेवनग्रहः । कण्डूयकादीनां कण्ड्वादेरिव भवाभिनन्दिनामवेद्यसंवेद्यपदादेव | विपर्ययधीरिति भावः ।।३०।।
एतेऽसच्चेष्टयात्मानं मलिनं कुर्वते निजम् ।
बडिशामिषवत्तुच्छे प्रसक्ता भोगजे सुखे ॥३१॥ १. हस्तादर्श 'अवेद्यसंवेद्यसंवेद्यपदे' इत्यशुद्धः पाठः । २. हस्तादर्श '...पातारंभादि' इति पाठः । ३. हस्तादर्श 'कण्डूकय..' इत्यशुद्धः पाठः मूलानुसारेण ।
to
२२/३१
।।३९४॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org