________________
24 ॐ सभा
एते इति । एते = भवाभिनन्दिनो असच्चेष्टया महारम्भादिप्रवृत्तिलक्षणया निजं आत्मानं मलिनं कुर्वते, कर्मरजःसम्बन्धात् । बडिशाऽऽमिषवत् = मत्स्यगलमांसवत् तुच्छे = अल्पे रौद्रविपाके प्रसक्ता भोगजे = भोगप्रभवे' सुखे ।।३१ ।।
___ अवेद्यसंवेद्यपदं सत्सङ्गाऽऽगमयोगतः ।
तदुर्गतिप्रदं जेयं परमानन्दमिच्छता ।।३२।। अवेद्येति । यतोऽस्यायं दारुणो विपाकः तत = तस्माद अवेद्यसंवेद्यपदं दुर्गतिप्रदं = नरकादिदुर्गतिकारणं सत्सङ्गागमयोगतो = 'विशिष्टशिष्टसङ्गमागमसम्बन्धात् परमानन्दं मोक्षसुखं इच्छता जेयं अस्यामेव भूमिकायां, अन्यदा जेतुमशक्यत्वात् ।। अत एवाऽनुवादपरोऽप्यागम इति योगाचार्या अयोग्यनियोगाऽसिद्धेरिति ।।३२।।
।। इति तारादित्रयद्वात्रिंशिका ||२२।।
॥ अथ कुतर्कग्रहनिवृत्तिद्वात्रिंशिका ।।२३।। अनन्तरमवेद्यसंवेद्यपदं जेयमित्युक्तं, अत्र तज्जयेनैव कुतर्कनिवृत्तिर्भवति । सैव चाऽत्यन्तमादरणीयेत्याह
॥३९५॥
२३/१
१. हस्ताद” 'भोगभवे' इति पाठान्तरम् । २. मुद्रितप्रती 'विशिष्टसंगम...' इति त्रुटितः पाठः । ३. हस्तादर्श '....सम्बन्ध' इत्यशुद्धः पाठः । ४. हस्तादर्श '...मवद्य...' इत्यशुद्धः पाठः ।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org