SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ।। विंशतिम् ।।१५।। अधिकारपरित्यागात् पारिवाज्येऽस्तु तत्फलम् । इति चेत्तदभावे नाऽदुष्टतेत्यपि सङ्कटम् ।।१६।। अधिकारेति । “अधिकारस्य गृहस्थभावलक्षणस्य परित्यागात् (=अधिकारपरित्यागात्) पारिवाज्ये = मस्करित्वे तत्फलं = मांसभक्षणनिवृत्तिफलं अस्त । अयमभिप्राय:- गृहस्थतायां प्रोक्षितादिविशेषणं मांस भक्षणीयमेव। तस्माच्च पारिव्राज्यप्रतिपत्तिद्वारेण विनिवर्तत इत्येवं प्राप्तिपूर्विका निवृत्तिर्मासंभक्षणस्य स्यात्, सा च 'सफलेति " इति चेत् ? तदभावे = पारिव्राज्याऽभावे न अदुष्टता = प्राप्तिपूर्वकनिवृत्त्या अभावे अभ्यु(? वेनाभ्यु)दयादिफलाऽभावाऽऽपत्तिलक्षणदोषपरिहार इत्यपि सङ्कटं आयुष्मतः । यदाह 'पारिव्राज्यं निवृत्तिश्चेद्यस्तदप्रतिपत्तितः । फलाऽभावः स एवाऽस्य दोषो निर्दोषतैव न ।।' (अष्टक-१८/८) ननु प्राप्तिः प्रमाणपरिच्छेद एव, स चाऽशास्त्रीयमांसभक्षणेऽप्यस्तीति तन्निवत्तेः फलवत्त्वमना-बाधं, अन्यथा 'प्राप्तमेव प्रतिषिध्यते' इति मन्त्रपाठबलाज्जलह्रदे वह्निरपि सिध्येत, तन्निवृत्तेस्तत्र सत्त्वात् । ___वस्तुतो निषिद्धनिवृत्तिर्न धर्मजननी किन्त्वधर्माऽभावप्रयोजिका, निषिद्धप्रवृत्तेरधर्महेतुत्वेन १. हस्तादर्श ‘सा च फला' इति त्रुटितः पाठः । १. हस्तादर्श '...एव परिश्रुताशा...' इति पाठः । ||१२०॥ Jain Education Interational For Privale & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy