________________
। ( ) इति ।।१३।।
नैतन्निवृत्त्ययोगेन तस्याः प्राप्तिनियन्त्रणात् ।
प्राप्ते' तस्याः निषेधेन यत एतदुदाहृतम् ॥१४॥ नैतदिति । एतद् = विशेषपरत्वेन विधि-निषेधोभयसमाधानं प्रकृते न युक्तं, निवृत्त्ययोगेन = मांसभक्षणनिवृत्त्यसम्भवेन, तस्याः = निवृत्तेः प्राप्तिनियन्त्रणात् = प्राप्तिनियमनात्, 'प्राप्तमेव प्रतिषिध्यते' इति न्यायात् । 'तर्हि प्रोक्षितादिविधिना प्राप्तमेव निषिध्यताम्', __न, प्राप्ते तस्याः = निवृत्तेः निषेधेन', 'निषिद्धकर्मकरणे पापप्रचयस्यैव सम्भवात्तस्या महाफलत्वाऽनुपपत्तेः । यत एतदुदाहृतं भवद्ग्रन्थे ।।१४।।
यथाविधि नियुक्तस्तु यो मांसं नात्ति वै द्विजः ।
स प्रेत्य पशुतां याति सम्भवानेकविंशतिम् ।।१५।। यथाविधीति । यथाविधि = शास्त्रीयन्यायाऽनतिक्रमेण नियुक्तः = गुरुभिर्व्यापारितः, तुः पुनरर्थः, तस्य चैवं प्रयोगः ‘अविधिना मांसमखादन्निर्दोष एव, यथाविधि नियुक्तः पुनः यो मांसं नात्ति 'वै' इति निपातो वाक्याऽलङ्कारार्थः, द्विजः = विप्रः स प्रेत्य = परलोके पशुतां = तिर्यग्भावं याति सम्भवनानि = सम्भवा = जन्मानि तान् (=सम्भवान्) एक- १. हस्तादर्श 'प्राप्तायास्य' इत्यशुद्धः पाठः । २. हस्तादर्श 'प्राप्तत' इत्यशुद्धः पाठः । ३. मुद्रितप्रती 'तस्याः' पदं नास्ति । ४. मुद्रितप्रतौ 'निषेध नि...' इति त्रुटितोऽशुद्धश्च पाठः । ५. हस्तादर्श 'निषिद्धकरण' इति पाठः ।
७/१५
॥११९।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org