________________
s - एक
पूर्वव्याख्यानमेवाऽऽदृतम्।
'शास्त्राद बाह्यभक्षणं प्रतीत्य सामान्यत इत्यर्थः नैष निषेधः' इति त व्याख्यानं विशेषतात्पर्ये परस्येष्टमेव । विशेषतात्पर्य ग्रहोपायमाह यतः स्मृतम ।।१२।।
प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानां च काम्यया ।
यथाविधि नियुक्तस्तु प्राणानामेव चात्यये ॥१३॥ प्रोक्षितमिति । प्रोक्षितं = वैदिकमन्त्राऽभ्युक्षितं भक्षयेत् = अश्नीयाद् मांसं = पिशितं ब्राह्मणानां च काम्यया = इच्छया = द्विजभुक्तावशेषं प्रति तदनुज्ञया विधिः = न्याय यत्र यागश्राद्ध-प्राघूर्णकादौ प्रक्रिया तस्याऽनतिक्रमेण यथाविधि । तत्र यागविधिः “पशुमेधाऽश्वमेधादिशास्त्रसिद्धः । श्राद्धविधिस्तु 'द्वौ मासौ मत्स्यमांसेन' (मनुस्मृति-३/२६८) इत्यादिप्रसिद्धः ।
प्राघूर्णकविधिस्तु याज्ञवल्क्योक्तोऽयं 'महोक्षं वा महाजं वा श्रोत्रियाय प्रकल्पयेदिति (याज्ञवल्क्यस्मृति अ.१ श्लोक-१७९) ।
तथा नियुक्तस्तु = गुरुभिर्व्यापारित एव, तथा प्राणानामेव इन्द्रियादीनामेव चात्यये = विनाशे उपस्थिते इति शेषः, आत्मा हि रक्षणीयः। यदाह ‘सर्वत्र एवात्मानं गोपयेत्' १. मुद्रितप्रतौ '...ग्रहणग्रहोपाय...' इति पाठः । २. 'वात्यये' इति अष्टकप्रकरणे (१८-५) ३. हस्तादर्श 'काम्येच्छया' इत्यशुद्धः पाठः । ४. हस्तादर्श 'या' इति पाठः । ५. हस्तादर्श 'पश्वश्व..' इति पाठः । ६. हस्तादर्श '..शयेप..' इत्यशुद्धः पाठः । ७. हस्तादर्श 'गोपाये' इति पाठः ।
का
७/१३
(1॥११८।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org