________________
ध
र्म
कठ has to s
व्य
व
स्था
द्वा
त्रिं
शि
का
७/१२
Jain Education International
एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ।। ११ ।।
मामिति । अत्र हि भक्षकस्य भक्षितेन भक्षणीयत्वप्राप्तिनिबन्धनजन्मान्तराऽर्जनादेव व्यक्तं मांसभक्षणस्य दुष्टत्वं प्रतीयत इति तददुष्टत्वप्रतिपादकं वचनमनेनैव विरुध्यते ।। ११ ।। निषेधः शास्त्रबाह्येऽस्तु विधिः शास्त्रीयगोचरः । दोषो विशेषतात्पर्यान्नन्वेवं न यतः स्मृतम् ।।१२।।
निषेध इति । ननु शास्त्रबाह्ये मांसभक्षणे निषेधोऽस्तु, निरुक्तबलप्राप्तनिषेधे' विध्यर्थोऽवे, विधिश्च शास्त्रीयगोचरः वचनोक्तमांसभक्षणविषयोऽस्तु ।
=
एवं विशेषतात्पर्याद् = विधि-निषेधवाक्यार्थयोर्विधेय-निषेध्ययोः सामानाधिकरण्येनाऽन्वये तात्पर्याद् न दोषः = 'न मांसभक्षणे दोष' (मनुस्मृति ५/५६ ) इत्यत्र मांसभक्षणसामान्ये दोषाऽभावबाधलक्षणः ।
अन्यथा 'ज्योतिष्टोमेन स्वर्गकामो यजेत' ( ) इत्यादावपि स्वर्गादिसामान्ये यागादिकार्यताबाधप्रसङ्गात् ।
इत्थं च- 'इत्थं जन्मैव दोषोऽत्र न शास्त्राद् बाह्यभक्षणम् । प्रतीत्यैष निषेधश्च न्याय्यो वाक्यान्तराद् गतेः 11' (अष्टक. १८/४ ) इत्यत्र 'ने त्यादौ पूर्वपक्षाभिप्रायेण 'नैवं, यतः शास्त्राद् बाह्यभक्षणं प्रतीत्यैष जन्मलक्षणो दोषो निषेधश्च निरुक्तबलप्रापितः' इति १. मुद्रितप्रतौ ' शास्त्रबाह्योऽस्तु' इति पाठः । २. हस्तादर्शे 'निषेधवि' इति पाठः । ३. हस्तादर्शे ..लक्षणं' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
।।११७ ।।
www.jainelibrary.org