SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ध र्म कठ has to s व्य व स्था द्वा त्रिं शि का ७/१२ Jain Education International एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ।। ११ ।। मामिति । अत्र हि भक्षकस्य भक्षितेन भक्षणीयत्वप्राप्तिनिबन्धनजन्मान्तराऽर्जनादेव व्यक्तं मांसभक्षणस्य दुष्टत्वं प्रतीयत इति तददुष्टत्वप्रतिपादकं वचनमनेनैव विरुध्यते ।। ११ ।। निषेधः शास्त्रबाह्येऽस्तु विधिः शास्त्रीयगोचरः । दोषो विशेषतात्पर्यान्नन्वेवं न यतः स्मृतम् ।।१२।। निषेध इति । ननु शास्त्रबाह्ये मांसभक्षणे निषेधोऽस्तु, निरुक्तबलप्राप्तनिषेधे' विध्यर्थोऽवे, विधिश्च शास्त्रीयगोचरः वचनोक्तमांसभक्षणविषयोऽस्तु । = एवं विशेषतात्पर्याद् = विधि-निषेधवाक्यार्थयोर्विधेय-निषेध्ययोः सामानाधिकरण्येनाऽन्वये तात्पर्याद् न दोषः = 'न मांसभक्षणे दोष' (मनुस्मृति ५/५६ ) इत्यत्र मांसभक्षणसामान्ये दोषाऽभावबाधलक्षणः । अन्यथा 'ज्योतिष्टोमेन स्वर्गकामो यजेत' ( ) इत्यादावपि स्वर्गादिसामान्ये यागादिकार्यताबाधप्रसङ्गात् । इत्थं च- 'इत्थं जन्मैव दोषोऽत्र न शास्त्राद् बाह्यभक्षणम् । प्रतीत्यैष निषेधश्च न्याय्यो वाक्यान्तराद् गतेः 11' (अष्टक. १८/४ ) इत्यत्र 'ने त्यादौ पूर्वपक्षाभिप्रायेण 'नैवं, यतः शास्त्राद् बाह्यभक्षणं प्रतीत्यैष जन्मलक्षणो दोषो निषेधश्च निरुक्तबलप्रापितः' इति १. मुद्रितप्रतौ ' शास्त्रबाह्योऽस्तु' इति पाठः । २. हस्तादर्शे 'निषेधवि' इति पाठः । ३. हस्तादर्शे ..लक्षणं' इत्यशुद्धः पाठः । For Private & Personal Use Only ।।११७ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy