SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ // = मांसभक्ष्यत्वं वृथोदितं' परेण ।।८।। अधिकृतार्थ एव वाद्यन्तरमतनिरासायोपक्रमते न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥९॥ नेति । न = नैव मांसभक्षणे दोषः कर्मबन्धलक्षणः, न मद्ये पीयमान इति गम्यते, न च मैथुने सेव्यमान इति गम्यते , यतः प्रवृत्तिः = स्वभाव एषा = मांसभक्षणादिका भूतानां = प्राणिनाम् । निवृत्तिः = विरमणं (तु = ) पुनः मांसभक्षणादिभ्यो महदभ्युदयलक्षणं फलं यस्याः सा (तथा = महाफला) ।।९।। भक्ष्यं मांसं परः प्राहाऽनालोच्य वचनादतः । जन्मान्तराऽर्जनाद्दष्टं न चैतद्वेद यत्स्मृतम् ॥१०॥ भक्ष्यमिति । परः = द्विजन्मजातीयोऽतो वचनाद्' अनालोच्य पूर्वाऽपरशास्त्रन्यायविरुद्धतां' मांस भक्ष्यं प्राह । न चैतद् = मांसभक्षणं जन्मान्तरार्जनाद् = अन्यभवोत्पादनाद् दुष्टं वेद = जानाति । यत्स्मृतं मनुना ।।१०।। मां स भक्षयिताऽमुत्र यस्य मांसमिहाम्यहम् । १. हस्तादर्श 'मांसभक्षणं' इति पाठान्तरम् । २. मुद्रितप्रतौ 'वृथोपितं' इत्यशुद्धः पाठः । ३. हस्तादर्श 'वचनालोच्य' इत्यशुद्धः पाठः । ४. हस्तादर्श 'पूर्वापरमशा...' इत्यशुद्धः पाठः । ५. हस्तादर्श 'विद्वतां' इत्यशुद्धः पाठः । ..... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy