________________
ध
व्य
व
स्था
द्वा
त्रिं
शि
का
७ / १७
Jain Education International
तद भावे तदनुत्पत्तेः । निवृत्तिपदं चाऽत्र पारिव्राज्यपरमेव, सर्वकर्मसन्यासरूपस्य तस्य महाफलत्वोपपत्तेरिति न कोऽप्यत्र दोषः इति चेत् ?
न, तथापि 'न मांसभक्षणे दोष:' (मनुस्मृति ५/५६ ) इत्यत्र मांसभक्षणपदस्य शास्त्रीय| मांसभक्षणपरत्वे तददुष्टत्वे साध्ये भूतप्रवृत्तिविषयत्वस्य हेतोरनैकान्तिकत्वात् । प्रवृत्तौ विहितत्वविशेषणप्रक्षेपे च विशेष्यभागस्य वैयर्थ्यात् फलतः पक्षहेत्वोरविशेषाऽऽपत्तेश्च ।
किञ्चोत्सर्गतो निषिद्धं पुष्टाऽऽलम्बनसमावेशेन क्वचित्कदाचित्कस्यचिद् गुणावहमपि स्वरूपतो ́ दुष्टतां न परित्यजति यथा वैद्यकनिषिद्धं स्वेदकर्म ज्वराऽपनयनाय विधीयमानम् । न चाऽत्र किञ्चिदालम्बनं पश्यामो विनाऽधर्म वृद्धिकुतूहलादिति । अधिकं मत्कृतस्याद्वादकल्पलतायाम् ।।१६।।
मद्येऽपि प्रकटो दोषः श्री - हीनाशादिरैहिकः ।
सन्धानजीवमिश्रत्वान्महानामुष्मिकोऽपि च ।। १७ ।।
मद्येऽपीति । मद्येऽपि = मधुन्यपि प्रकटो दोषः, श्रीः = लक्ष्मीः ह्रीः = लज्जाऽऽदिना विवेकादिग्रहस्तन्नाशाद् (? = श्री-ड्रीनाशादिः) ऐहिक: = इहैव विपाकप्रदर्शकः । तथा आमुष्मि१. हस्तादर्शे 'तदभव' इत्यशुद्धः पाठः । २ मुद्रितप्रतौ 'सर्वकर्मन्यास...' इति पाठः । ३. हस्तादर्शे 'फलहेत्वो... इति पाठः । ४. मुद्रितप्रतौ 'स्वरुपतोऽदुष्टतां' इति पाठः । स चाशुद्धः । ५. मुद्रितप्रती ... धर्मप्रवृ...' इति पाठान्तरम् । ६. हस्तादर्शे ...कोऽपि हि' इति पाठान्तरम् ।
For Private & Personal Use Only
।।१२१ ।
www.jainelibrary.org