________________
।। कोऽपि = परभवे विपाकप्रदर्शकोऽपि' महान् दोषः, सन्धानेन = जलमिश्रितबहुद्रव्यसंस्थापनेन
जीवमिश्रत्वात् = जीवसंसक्तिमत्त्वात् (=सन्धानजीवमित्रत्वात्) । ‘सन्धानवत्यप्यारनालादाविव नाऽत्र दोषः' इति चेत् ? न, शास्त्रेणैतद्दुष्टत्वबोधनात् । तदाह- 'मद्यं पुनः प्रमादाङ्गं तथा सच्चित्तनाशनम् । सन्धानदोषवत्तत्र न दोष इति साहसम् ।।' (अष्टक-१९/१)
मद्यस्याऽतिदुष्टत्वं च पुराणकथास्वपि श्रूयते । तथाहिकश्चिदृषिस्तपस्तेपे भीत इन्द्रः सुरस्त्रियः । क्षोभाय प्रेषयामास तस्याऽऽगत्य च तास्तकम् ।। विनयेन समाराध्य वरदाऽभिमुखं स्थितम् । “जगुर्मद्यं तथा हिंसां सेवस्वाऽब्रह्म वेच्छया।। स एवं गदितस्ताभिर्द्वयोर्नरकहेतुताम् । आलोच्य मद्यरूपं च शुद्धकारणपूर्वकम् ।। मद्यं प्रपद्य तद्भोगान्नष्टधर्मस्थितिर्मदात् । विदंशार्थमजं हत्वा सर्वमेव चकार सः ।। ततश्च भ्रष्टसामर्थ्यः स मृत्वा दुर्गतिं गतः। इत्थं दोषाऽऽकरो मद्यं विज्ञेयं धर्मचारिभिः।। (अष्टक-१९/४-८) इति ।।१७।।
नियमेन सरागत्वाद् दुष्टं मैथुनमप्यहो ।
मूलमेतदधर्मस्य निषिद्धं योगिपुङ्गवैः ॥१८॥ नियमेनेति । नियमेन = निश्चयेन सरागत्वात्, 'न तं विणा रागदोसेहिं' () (१२२ । १. हस्तादर्श 'अपि' नास्ति । २. हस्तादर्श 'मद्यस्य अपि दु..' इति पाठान्तरम् । ३. हस्तादर्श 'तपस्तपे' इत्यशुद्धः पाठः। ४. मुद्रितप्रतौ 'जगम..' इत्यशुद्धः पाठः ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org