SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ध कठि र has its r व्य व स्था द्वा त्रिं का ७ /१९ Jain Education International इति वचनात् अहो मैथुनमपि दुष्टम् । एतदधर्मस्य मूलं 'मूलमेयमहम्मस्स' (द.वै.६/१६) इत्याद्यागमात् योगिपुङ्गवैः = भगवद्भिः निषिद्धं भगवत्यां तस्या महाऽसंयमकारित्वप्रतिपादनात् ' । तदुक्तं "मेहुणं भंते! सेवमाणस्स केरिसए असंजमे कज्जति ? • गोयमा ! से जहानामए केइ पुरिसे बूरनलियं वा रूअनलियं वा तत्तेणं अउकणएणं समभिधंसिज्जा, मेहुणं सेवमाणस्स एरिसए असंजमे कज्जइत्ति ← ( व्याख्याप्रज्ञप्ति - २ / ५ / १२९ ) ।।१८।। धर्मार्थं पुत्रकामस्य स्वदारेष्वधिकारिणः । ऋतुकाले न तद्दुष्टं क्षुधादाविव भोजनम् ।। १९ ।। धर्मार्थमिति । धर्मार्थं = धर्मनिमित्तं पुत्रकामस्य = सुतार्थिनः, अपुत्रस्य हि धर्मो न भवति, ‘अपुत्रस्य गतिर्नास्ति' (गरुडपुराण- उत्तरखंड-१९/४, प्रजापतिस्मृति - १८८) इत्यादिवचनात्, स्वदारेषु = स्वकलत्रे, परकलत्रे वेश्यायां च तदधिगमस्याऽनर्थहेतुत्वात्, अधिकारिणः = गृहस्थस्य ऋतुकाले = 'आर्तवसम्भवाऽवसरे, अन्यदा दोषभावात् । यदाहऋतुकाले व्यतिक्रान्ते यस्तु सेवेत मैथुनम् । ब्रह्महत्याफलं तस्य सूतकं च दिने दिने ।। ( धर्मस्मृति - २३) तद् = मैथुनं न दुष्टं भोजनमिव क्षुधादौ । ' उक्तकारणाऽऽश्रितं मैथुन१. मैथुनं भदन्त ! सेवमानस्य (नेन ) कीदृशोऽसंयमः क्रियते ? गौतम ! तद्यथा नाम कश्चित्पुरुषः बूरनलिकां वा रुतनलिकां वा तप्तेनायः कणकेन समभिध्वंसयेत, मैथुनं सेवमानस्य (नेन ) ईदृशोऽसंयमः क्रियते । चिह्नद्वयमध्यवर्ती अग्रेतनपृष्ठव्यापी दीर्घः पाठो हस्तादर्श नास्ति । २ हस्तादर्शे 'च' नास्ति । ३. हस्तादर्शे 'आर्तरस...' इत्यशुद्धः पाठ: । For Private & Personal Use Only ।।१२३।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy