________________
।। मदुष्टं, गतरागप्रवृत्तित्वात्, वेदनादिकारणाऽऽश्रितभोजनवदिति प्रयोगः ।।१९।।
नैवमित्थं स्वरूपेण दुष्टत्वान्निबिडापदि ।
श्वमांसभक्षणस्येवाऽऽपवादिकनिभत्वतः ।।२०।। नैवमिति । एवं = यथोक्तं प्राक् तद् न, इत्थं = पुत्रोत्पत्तिगुणार्थमाश्रयणे आपवादिकनिभत्वतः = विशेषविध्यर्थप्रायत्वात्, निबिडापदि श्वमांसभक्षणस्येव स्वरूपेण दुष्टत्वात् । अयमभिप्रायः- यद्यप्यपवादेन श्वमांसाद्यासेव्यते तथापि तत्स्वरूपेण निर्दोषं न भवति, किन्तर्हि ? गुणान्तरकारणत्वेन गुणान्तरार्थिना तदाश्रीयते। एवं मैथुनं स्वरूपेण सदोषमप्याकौमाराद्यतित्वपालनाऽसहिष्णुर्गुणान्तराऽपेक्षी समाश्रयते । सर्वथा निर्दोषत्वे त्वाकुमारत्वाद्यतित्वपालनोपदेशोऽनर्थकः स्यात् गार्हस्थ्यत्यागोपदेशश्चेति। धर्मार्थिनोऽपि पुंसो मैथुने मेहनविकारिणः कामोदयस्य तथाविधाऽऽरम्भपरिग्रहयोश्च दोषयोरवश्यम्भावो दृश्यते। न | च कामोद्रेकं विना' मेहनविकारविशेषः सम्भवति भयाद्यवस्थायामिवेति। तदिदमुक्तं 'नाऽऽपवादिककल्पत्वान्नैकान्तेनेत्यसङ्गतम्" (अष्टक-२०/३) ।।२०।। उक्ताऽर्थे मानमाह
वेदं ह्यधीत्य स्नायाद्यत्तत्रैवाऽधीत्यसङ्गतः ।
व्याख्यातस्तदसावर्थो ब्रूते हीनां गृहस्थताम् ॥२१॥ वेदं हीति । यद् = यस्माद् 'वेदं ऋगादिकं हिशब्दो वाक्याऽलङ्कारार्थो अधीत्य १. हस्तादर्श ‘विना न मे...' इत्यधिकोऽशुद्धश्च पाठः ।
७/२१
। ।।१२४।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org