SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ // = पठित्वा स्नायात् = कलत्रसङ्ग्रहाय स्नानं कुर्यादि'त्यत्र = वेदवाक्ये वेदव्याख्यातृभिः एव' = अध्याहृत एवकारः अधीत्यसङ्गतः = अधीत्यपदसमभिव्याहृतो व्याख्यातः, ''वेदमधीत्यैव स्नायान्न त्वनधीत्ये'त्यवधारणात् । ___ तत् = तस्माद् 'वेदमधीत्य स्नायादेवे'त्यनवधारणाद् असावों 'गृहस्थतां = कलत्रसङ्ग्रहलक्षणां हीनां = औत्सर्गिकमैथुनपरिहाराऽपेक्षया 'जघन्यामापवादिकी ब्रूते । तदुक्तं'वेदं ह्यधीत्य स्नायाद् यदधीत्यैवेति शासितम् । स्नायादेवेति न तु यत्ततो हीनो गृहाश्रमः।। तत्र चैतदिति ।" (अष्टक-२०/३-४) ।।२१।। अदोषकीर्तनादस्य प्रशंसा तदसङ्गता । विध्युक्तेरिष्टसंसिद्धेर्बहुलोकप्रवृत्तितः ॥२२॥ अदोषेति । तत् = तस्माद् अस्य = मैथुनस्य अदोषकीर्तनात् = 'दोषाऽभावप्रतिपादनाद्'न च मैथुने' इति वचनेन प्रशंसाऽसङ्गता = अन्याय्या, विध्युक्तेः = आप्तत्वाऽभिमतकृतप्रशंसया विध्युन्नयनाद् इष्टसंसिद्धेः = इष्टसाधनत्वनिश्चयात् परलोकभयनिवृत्तेर्बहूनां लोकानां तत्र प्रवृत्तितः (=बहुलोकप्रवृत्तितः) ।।२२।। निवृत्तिः किञ्च युक्ता भो सावद्यस्येतरस्य वा । १. हस्तादर्श '...षो' इत्यशुद्धः पाठः । हस्तादर्शान्तरे 'एवोध्या..' इति पाठः । २. मुद्रितप्रती 'वेदान...' इति पाठः । ३. हस्तादर्श 'गृहस्थ...' इति पाठः । ४. 'जघन्यमा...' इत्यशुद्धः पाठो मुद्रितप्रतौ । ५. हस्तादर्श 'यदेधी..' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'यादे...' इत्यशुद्धः पाठः । ६. हस्तादर्श 'दोषाभावादिप्र...' इति पाठः । ।।१२५।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy