________________
ध
ठि र तक
व्य
व
स्था
त्रिं
शि
का
७/२४
Jain Education International
आद्ये स्याद् दुष्टता तेषामन्त्ये योगाद्यनादरः । । २३॥
निवृत्तिरिति । किञ्च भोः सावद्यस्य कर्मणो निवृत्तिर्युक्ता = धर्मकारिणी इतरस्य अनवद्यस्य वा ? आद्ये पक्षे तेषां मांस-मद्य-मैथुनानां दुष्टता स्यादन्त्ये पक्षे योगादेरनादरः (=योगाद्यनादरः) स्यात् ', अनवद्यस्य तस्य' मांसादेरिव निवृत्तेरिष्टत्वादिति न किञ्चित् ।। २३ ।
माध्यस्थ्यं केचिदिच्छन्ति गम्याऽगम्याऽविवेकतः ।
=
=
तन्नो विपर्ययादेवानर्गलेच्छानिरोधतः ।। २४ ।
माध्यस्थ्यमिति । केचिद् मण्डलतन्त्रवादिनो गम्यागम्ययोरविवेकतो ( - गम्यागम्याविवेकतः) व्यवस्थानान्माध्यस्थ्यमिच्छन्ति, अन्यथा गम्यायां 'रागेणागम्यायां च द्वेषादिना माध्यस्थ्यभङ्गात्, समप्रवृत्तौ च न सङ्क्लेश इति । तन्नो = नैव युक्तं, विपर्ययादेव गम्यागम्यविवेकादेव अनर्गलाया: = अमर्यादाया इच्छाया मोहविकाररूपाया निरोधत: (= अनर्गलेच्छा निरोधतः) निरुद्धायाश्चेच्छायाः स्वल्पेन्धनाग्नेरिव स्वल्पकालस्थितिकत्वाद् देशनिवृत्तिगर्भत्वेन च माध्यस्थ्यबीजत्वमिति गम्यागम्य-विवेकधर्माऽऽहितशुभाऽऽशयादेव चाऽचिरेण परममाध्यस्थ्यमप्युपपद्यत इति भावः । । २४ ||
=
=
१. हस्तादर्शे 'स्यान..' इत्यशुद्धः त्रुटितश्च पाठः । २. मुद्रितप्रतौ 'तस्य' पदं नास्ति । ३. इयं कारिका हस्तादर्शे नास्ति । ४. हस्तादर्शे 'रागस्या' इत्यशुद्धः पाठः । हस्तादर्शान्तरे 'रागस्य गम्या..' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
।।१२६।।
www.jainelibrary.org