________________
to F
oot
नाऽऽद्रियन्ते तपः केचिदुःखरूपतयाऽबुधाः ।
आर्तध्यानादिहेतुत्वात्कर्मोदयसमुद्भवात् ।।२५।। नेति । केचिदबुधास्तपो दुःखरूपतया नाऽऽद्रियन्ते, सर्वेषामेव दुःखिनां तपस्वित्वाऽविशेषापत्तेः', दुःखविशेषेण च तद्विशेषप्रसङ्गात् । तदाह - 'सर्व एव च दुःख्येवं तपस्वी सम्प्रसज्यते । विशिष्टस्तद्विशेषेण सुधनेन धनी यथा ।। महातपस्विनश्चैवं त्वन्नीत्या नारकादयः । शमसौख्यप्रधानत्वाद योगिनस्त्वतपस्विनः' ।।
(अष्टक ११/२-३) इति । दुःखरूपत्वं चोपवासादिरूपस्य तपसः कायपीडारूपस्य आर्तध्यानादिहेतुत्वात् । तदाह
आहारवर्जिते देहे धातुक्षोभः प्रजायते ।
तत्र चाऽधिकसत्त्वोऽपि चित्तभ्रंशं समश्नुते ।। (अष्टक ११/४) तथा कर्मोदयात् = असातवेदनीयोदयात् समुद्भवाद् = उत्पत्तेः (=कर्मोदयसमुद्भवात्) ज्वरादिवत् । ततश्चाऽनर्थहेतुत्वात् त्याज्यमेव, न तु लोकरूढ्या कर्तव्यमिति भावः ।।२५।।
यथासमाधान' विधेरन्तःसुखनिषेकतः ।
नैतज्ज्ञानादियोगेन क्षायोपशमिकत्वतः ।।२६।। यथेति । नैतत परोक्तं युक्तं, यथासमाधानं = मन-इन्द्रिय-योगानां समाधानमनतिक्रम्य १. हस्तादर्श 'तपस्वित्वाऽविशेषाद्' इति पाठः । हस्तादर्शान्तरे च ...त्वाविशेष' इति पाठः । १. मुद्रितप्रतौ '...धानविधे' इत्यशुद्धः पाठः । ३. हस्तादर्श 'समाधिम...' इति पाठान्तरम् ।
७/२६
।।१२७।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org