________________
ध
कचि to ho da
व्य
व
स्था
द्वा
त्रिं
शि
का
७/२६
Jain Education International
विधेः
सो य तवो कायव्वो जेण मणो मंगुलं ण चिंतेइ । जेण ण इंदियहाणी जेण य जोगा ण हायंति ।। ( महानिशीथचूर्णि - २४, पञ्चवस्तुक- २१८) इत्यागमेन विधानात् । अन्तः = मनसि भावाऽऽरोग्यलाभसम्भावनातः 'सुखस्य निषेकतः = निक्षेपात् (= अन्त:सुखनिषेकतः) । इत्थमपि कदाचित् कस्यचिद् भवन्त्या अपि देहपीडाया आर्त्तध्यानाद्यहेतुत्वात् बंहीयसा मानससुखेनाऽल्पीयस्याः कायपीडायाः प्रतिरोधात् । तदुक्तं-मनइन्द्रिययोगानामहानि चोदिता जिनैः । यतोऽत्र तत्कथं त्वस्य युक्त्या (ता) स्याद् दुःखरूपता ।। याऽपि चानशनादिभ्यः कायपीडा मनाक् क्वचित् । व्याधिक्रियासमा सापि नेष्टसिद्ध्याऽत्र' बाधनी ।। दृष्टा चेष्टाऽर्थसंसिद्धौ कायपीडा ह्यदुःखदा । रत्नादिवणिगादीनां " तद्वदत्राऽपि भाव्यताम् ।। ( अष्टक - ११ / ५-६-७ ) इति ।
तथा ज्ञानादीनां, आदिना शम-संवेग-सुख - ब्रह्मगुप्त्यादिग्रहः, योगेन = सम्बन्धेन (= ज्ञानादियोगेन) क्षायोपशमिकत्वतः = चारित्रमोहनीयकर्मक्षयोपशमसमुद्भवत्वान्न तप औदयिकत्वादनादरणीयम् । तदाह
=
“विशिष्टज्ञान- संवेग- शमसारमतस्तपः । क्षायोपशमिकं ज्ञेयमव्याबाधसुखात्मकम् ।। (अ. ११/८) " शमादय एव क्षायोपशमिका न तु तप इति चेद् ? न, गुणसमुदायरूपस्य 'तपसों१. तच्च तपः कर्तव्यं येन मनोऽमंगलं न चिन्तयति । येन नेन्द्रियहानिर्येन च योगा न हीयन्ते । २. हस्तादर्शे 'सुखेस्य' इति पाठः । ३. हस्तादर्शे 'नेत्रा..' इत्यशुद्धः पाठः । ४. हस्तादर्शविशेषे 'सिद्ध्याऽर्थबाधनी' इति पाठः । ५. हस्तादर्शे 'तेद्..' इत्यशुद्धः पाठः । ७. मुद्रितप्रती 'तपसोऽश....' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
।।१२८ ।
www.jainelibrary.org