________________
ऽशविवेचनेन पृथक्करणेऽतिप्रसङ्गात्, क्रोधादिदोषविरोधेन शमादीनामिव प्रमादादिदोषविरोधेन . तपसोऽप्यात्मगुणत्वाच्च । क्वचिदार्तध्यानादिदोषसहचरितत्वदर्शनेन तपसस्त्याज्यत्वे च क्वचिदहङ्कारादिसहचरितत्वाज्ज्ञानमपि त्याज्यं स्यात् । विवेकिनां ज्ञानं न तथेति चेद् ? विवेकिनां तपोऽप्येवमिति समानमुत्पश्यामः ।।२६।।
दयापि 'लौकिकी नेष्टा षटकायाऽनवबोधतः ।
ऐकान्तिकी च नाऽज्ञानान्निश्चय-व्यवहारयोः ॥२७ ।। दयापीति । लौकिकी = लोकमात्रप्रसिद्धाऽरण्यवासिनां तापसादीनां दयापि षटकायाऽनवबोधतः = पृथिव्यादिजीवाऽपरिज्ञानाद् नेष्टा = न फलवती, दयाया ज्ञानसाध्यत्वात्, "पढमं नाणं तओ दया' (दशवैकालिक-४/१०) इति वचनात्।
निश्चय-व्यवहारयोरज्ञानादैकान्तिकी च स्थूलव्यवहारमात्राऽभिमता लोकोत्तराऽऽभा साऽपि दया नेष्टा, तदभिमताया हिंसाया एवातिप्रसक्तत्वात्, तदभावस्याऽऽभिमानिकत्वात्, तादृशदयासद्भावेऽपि तत्त्वज्ञानाऽभावसद्भावाच्चेति भावः ।।२७।।
व्यवहारात्परप्राणरक्षणं यतनावतः ।
निश्चयान्निर्विकल्पस्वभावप्राणाऽवनं तु सा ।।२८।। १. हस्तादर्श 'सहरित ....' इत्यशुद्धः पाठः । २. हस्तादर्श ‘देया लौकिर्के' इत्यशुद्धः पाठः । ३. हस्तादर्श 'ऐकौतिकी' इत्यशुद्धः पाठः । ४. एवं चिट्ठइ सन्चसंजए । अन्नाणी किं काही किं वा नाहीइ छेअपावगं ।। इति गाथाशेषः । दशवे अध्य.४/१० । ५. मुद्रितप्रती '...मात्राभिमतलोको...' इति पाठः ।
-
-
॥१२९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org