________________
व्यवहारादिति । यतनावतः = सूत्रोक्तयतनाशालिनः परेषां प्राणानां रक्षणं (=परप्राणरक्षणं) व्यवहारात अहिंसा, लोकसम्मताऽर्थनाहित्वात व्यवहारनयस्य. निश्चयतः परप्राणिसाध्यपरप्राणरक्षणे स्वसाध्यत्वशुभसङ्कल्पाऽनुविद्धत्वाच्च।
निश्चयात्' = निश्चयनयात् त्तु निर्विकल्पो = विकल्पपवननिवृत्त्या स्तिमितोदधिदशास्थानीयो यः स्वस्य भावप्राणः तदवनं = तद्रक्षणं = निर्विकल्पस्वभावप्राणाऽवनं) सा दया. परप्राण रक्षणाऽवसरेऽपि तदविनाभाविना शुभसङ्कल्पेनाऽशुभसङ्कल्पादुदधौ निमज्जतो विषमतरण्डलाभेनेव स्वभावप्राणत्राणेनैव निश्चयेन दयाऽभ्युपगमात् । अत एवोक्तमागमे
"आया चेव अहिंसा आया हिंसत्ति णिच्छओ एसो ।
जो होइ अप्पमत्तो अहिंसओ हिंसओ इयरो ।।" (ओघनियुक्ति-७५४) नैगमस्य हि जीवेष्वजीवेषु च हिंसा, तथा च वक्तारो भवन्ति- “जीवोऽनेन हिंसितो, घटो-ऽनेन हिंसितः” इति । इत्थं च हिंसाशब्दाऽनुगमाज्जीवेष्वजीवेषु च हिंसेति ।
एवमहिंसाऽपि । सङ्ग्रह-व्यवहारयोश्च षट्षु जीवनिकायेषु हिंसा । सङ्ग्रहोऽत्र देशग्राही गृह्यते, सामान्यरूपस्य नैगमेऽन्तर्भावात्, व्यवहारश्च स्थूलविशेषग्राही लोकव्यवहरणशीलश्च । लोको हि बाहुल्येन षट्सु जीवनिकायेष्वेव हिंसामिच्छतीति ।
ऋजुसूत्रश्च प्रत्येकं प्रत्येकं जीवहिंसां व्यतिरिक्तामिच्छति । १. हस्तादर्श 'शालि परे..' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'निश्चयात्' पदं नास्ति । ३. हस्तादर्श .....पमात्' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'षड्जीव...' इति पाठः ।
॥१३०॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org