SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ शब्द-समभिरूढेवम्भूतनयानां चात्मैव हिंसा निजगुणप्रतिपक्षप्रमादपरिणतः, स्वभावपरिणतश्चात्मैवाहिंसेति नयविभागः ।।२८।। विशिष्टव्यवहारविधेर्विशेष्यबाधेऽपि विशेषणोपसङ्कमान्न व्याघात इत्याह यत्नतो जीवरक्षार्था तत्पीडाऽपि न दोषकृत् । अपीडनेऽपि पीडैव भवेदयतनावतः ।।२९।। यत्नत इति । यत्नतः = सूत्रोक्तयतनया जीवरक्षार्था = स्वरसतो जीवरक्षोद्देशप्रवृत्ता तत्पीडापि = जीवपीडापि न दोषकृत् = न साम्परायिककर्मबन्धकृत् । यत उक्तं "अज्झत्थविसोहीए' जीवनिकाएहिं संथडे लोए । देसियमहिंसगत्तं जिणेहिं तेलुक्कदंसीहिं ।।” (ओघनियुक्ति-७४७) तथा "तस्स असंचेयओ संचेयओ अ जाइं सत्ताई । जोगं पप्प विणस्संति णस्थि हिंसाफलं तस्स ।।" (ओघनिर्यक्ति-७५१) अयतनावतो = यतनावर्जितस्य अपीडनेऽपि = दैवात्परप्राणिपीडनाऽभावेऽपि तत्त्वतः | पीडैव भवेत् । तदुक्तं "जे वि ण वाविज्जति णियमा तेसिं पि हिंसगो सो उ । सावज्जो उ पओगेण सव्वभावेण सो जम्हा ।।" (ओघनियुक्ति-७५३) ।।२९।। १. हस्तादर्श ....सोहीण' इति पाठः । २. मुद्रितप्रतौ 'संघडे' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ ....देसीहिं..' इति पाठः। ४. मुद्रितप्रतौ 'असंवेयओ संवेयओ' इत्यशुद्धः पाठः । ७/२९ ॥१३१।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy