SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ इत्थं च' परिणामप्राधान्यमेव व्यवस्थितमित्याह रहस्यं परमं साधोः समग्रश्रुतधारिणः । परिणामप्रमाणत्वं निश्चयैकाग्रचेतसः ॥३०॥ रहस्यमिति । रहस्यं = तत्त्वं परमं = सर्वोत्कृष्टं साधोः समग्रश्रुतधारिणः = स्वभ्यस्तगणि-पिटकोपनिषदः परिणामस्य = चित्तभावस्य प्रमाणत्वं = फलं प्रति स्वातन्त्र्यलक्षणं (=परिणामप्रमाणत्वं) निश्चये = निश्चयनये एकाग्रं = अव्याक्षिप्तं चेतो यस्य (तस्य = निश्चयैकाग्रचेतसः) ।।३०।। ननु यद्ययं निश्चयस्तदा किं परप्राणरक्षणया लोकमात्रप्रत्ययप्रयोजनयेत्यत आह तिष्ठतो न शुभो भावो ह्यसदायतनेषु च । गन्तव्यं तत्सदाचारभावाऽभ्यन्तरवर्त्मना ।।३१।। ___ तिष्ठत इति । असदायतनेषु प्राणव्यपरोपणादिषु तिष्ठतो हि शुभो भाव एव न ।। भवति, अतः परिणामशुद्ध्यर्थमेव परप्राणरक्षणं साधूनामिति भावः । तदुक्तं७/३१ “जो पुण हिंसायतणेसु वट्टइ तस्स नणु परिणामो । । दुट्ठो न य तं लिंगं होइ विसुद्धस्स जोगस्स ।। तम्हा सया विसुद्धं परिणामं इच्छया सुविहिएणं । । १. मुद्रितप्रती 'च' नास्ति । २. हस्तादर्श 'रक्षणा....' इति पाठः । ३. हस्तादर्श 'विशुद्ध' इत्यशुद्धः पाठः । ||१३२।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy