SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ to + हिंसाऽऽययणा सव्वे परिहरियव्वा पयत्तेणं ।।” (ओघनियुक्ति-५८-५९) ॥ ये त्वेकान्तनिश्चयमेवाद्रियन्ते ते निश्चयतो निश्चयमेव न 'जानते, हेतुस्वरूपानुबन्धशुद्धतज्ज्ञानाभावात्। तदाह- "णिच्छयमवलंबंता णिच्छयओ णिच्छयं अयाणंता । ___णासंति चरण-करणं बाहिरकरणाऽऽलसा केई ।।” (ओघनियुक्ति-७६१) तद् = तस्मात् सदाचारः = परिशुद्धबाह्ययतना भावश्च = शुद्धपरिणामः ताभ्यामभ्यन्तरवर्त्मना(= सदाचार-भावाभ्यन्तरवर्त्मना च) गन्तव्यं मुमुक्षुणा, तथैव दयाविशेषसिद्धेरिति हितोपदेशः ।।३१।। विदित्वा लोकमुत्क्षिप्य लोकसंज्ञां च लभ्यते । इत्थं व्यवस्थितो धर्मः परमानन्दकन्दभूः ।।३२॥ विदित्वेति । विदित्वा = ज्ञात्वा लोकं = स्वेच्छाकल्पिताऽऽचारसक्तं जनं उत्क्षिप्य | = निराकृत्य लोकसंज्ञां 'बहुभिर्लोकैराचीर्णमेवाऽस्माकमाचरणीयमि'त्येवंरूपां च लभ्यते = प्राप्यते इत्थं = उक्तरीत्या व्यवस्थितः = प्रमाणप्रसिद्धः धर्मः परमानन्द एव कन्दस्तस्य ७/३२ || भूः = उत्पत्तिस्थानम् (=परमानन्दकन्दभूः) ।।३२।। ।। इति धर्मव्यवस्थाद्वात्रिंशिका ।।७।। |||१३३।। क १. हस्तादर्श '.यमेव ज्ञानहेतु..' इति त्रुटितोऽशुद्धश्च पाठः । २. हस्तादर्श '....णकारणं' इत्यशुद्धः पाठः । ३. __हस्तादर्श 'प्रमाप्रसिद्ध' इति पाठः । Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy