________________
to ho ho to
वा
द
द्वा
शि
का
८/३
Jain Education International
।। अथ वादद्वात्रिंशिका ॥ ८ ॥ धर्मव्यवस्थातो वादः प्रादुर्भवतीति तत्स्वरूपमिहोच्यतेशुष्कवादो विवादश्च धर्मवादस्तथापरः । कीर्तितस्त्रिविधो वाद इत्येवं तत्त्वदर्शिभिः ॥ १ ॥ शुष्केति । स्पष्टः ॥ १ ॥
पराऽनर्थो लघुत्वं वा विजये च पराजये ।
ract सह दुष्टेन शुष्कवादः स कीर्तितः ॥ २ ॥
=
परेति । यत्र दुष्टेन = अत्यन्तमान- क्रोधोपेतचित्तेन सहोक्तौ सत्यां विजये सति परस्य = प्रतिवादिनः परः = प्रकृष्टो वा अनर्थो' मरण-चित्तनाश-वैरानुबन्ध- संसारपरिभ्रमणरूपः साध्व-तिपातन-शासनोच्छेदादिरूपो वा । पराजये च सति लघुत्वं वा “ जितो जैनः । अतोऽसारं जैनशासनं” इत्येवमवर्णवादलक्षणं भवति, स शुष्कवादो गलतालुशोषमात्रफलत्वात् कीर्तितः ॥२॥
छल-जातिप्रधानोक्तिर्दुः स्थितेनाऽर्थिना सह ।
विवादोऽत्रापि विजयाऽलाभो वा विघ्नकारिता । । ३ ॥
छति । दुःस्थितेन दरिद्रेण अर्थिना = लाभ- ख्यात्यादिप्रयोजनिना सह छलं
१ . हस्तादर्शे ‘विजयेन' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'वानों' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'ख्यावा...' इत्यशुद्धः पाठः ।
=
For Private & Personal Use Only
।।१३४।।
www.jainelibrary.org