SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ to ho ho ta s वा त्रिं शि का ८/५ Jain Education International = अन्याभिप्रायेणोक्तस्य शब्दस्याऽभिप्रायान्तरेण दूषणं, जातिभ्वासदुत्तरं ताभ्यां प्रधानोक्तिः ( = छलजातिप्रधानोक्तिः) विवादो = विरुद्धो वादः । अत्राऽपि = विवादेऽपि विजयाऽलाभः परस्याऽपि च्छल - जात्याद्युद्भावनपरत्वात्, वा = अथवा विघ्नकारिता, अत्यन्ताऽप्रमादितया छलादिपरिहारेऽपि प्रतिवादिनोऽर्थिनः पराभूतस्य लाभख्यात्यादिविघातध्रौव्यात् । बाधते च पराऽपायनिमित्तता तपस्विनः परलोकसाधनमिति नाsatभयथाऽपि फलमिति भावः ||३|| ज्ञातस्वशास्त्रतत्त्वेन' मध्यस्थेनाऽघभीरुणा । कथाबन्धस्तत्त्वधिया धर्मवादः प्रकीर्तितः ॥४॥ = ज्ञातेति । ज्ञातं स्वशास्त्रस्य = अभ्युपगतदर्शनस्य तत्त्वं येन ( तेन ज्ञातस्वशास्त्रतत्त्वेन), एवम्भूतो हि स्वदर्शनं दूषितमदूषितं वा जानीते । मध्यस्थेन = आत्यन्तिकस्वदर्शनाऽनुरागपरदर्शनद्वेषरहितेन, एवम्भूतस्य हि सुप्रतिपादं तत्त्वं भवति । तथा अघभीरुणा पातकभयशीलेन, एवम्भूतो ह्यसमञ्जसवक्ता न भवतीति, सहेति गम्यते, तत्त्वधिया = तत्त्वबुद्धया यः कथाबन्धः स धर्मवादो धर्मप्रधानो वादः प्रकीर्तितः || ४ || = वादिनो धर्मबोधादि विजयेऽस्य महत्फलम् । आत्मनो मोहनाशश्च प्रकटस्तत्पराजये ॥ ५ ॥ १. हस्तादर्शे 'तत्त्वेनाऽम..' इत्यशुद्धः पाठः । २. हस्तादर्शे 'प्रतिपदं' इति पाठः । ३. हस्तादर्शे ‘विनये' इत्यशुद्धः पाठः । - For Private & Personal Use Only ।।१३५ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy