SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ to ho ho ta s वा त्रिं शि का ८/५ Jain Education International = अन्याभिप्रायेणोक्तस्य शब्दस्याऽभिप्रायान्तरेण दूषणं, जातिभ्वासदुत्तरं ताभ्यां प्रधानोक्तिः ( = छलजातिप्रधानोक्तिः) विवादो = विरुद्धो वादः । अत्राऽपि = विवादेऽपि विजयाऽलाभः परस्याऽपि च्छल - जात्याद्युद्भावनपरत्वात्, वा = अथवा विघ्नकारिता, अत्यन्ताऽप्रमादितया छलादिपरिहारेऽपि प्रतिवादिनोऽर्थिनः पराभूतस्य लाभख्यात्यादिविघातध्रौव्यात् । बाधते च पराऽपायनिमित्तता तपस्विनः परलोकसाधनमिति नाsatभयथाऽपि फलमिति भावः ||३|| ज्ञातस्वशास्त्रतत्त्वेन' मध्यस्थेनाऽघभीरुणा । कथाबन्धस्तत्त्वधिया धर्मवादः प्रकीर्तितः ॥४॥ = ज्ञातेति । ज्ञातं स्वशास्त्रस्य = अभ्युपगतदर्शनस्य तत्त्वं येन ( तेन ज्ञातस्वशास्त्रतत्त्वेन), एवम्भूतो हि स्वदर्शनं दूषितमदूषितं वा जानीते । मध्यस्थेन = आत्यन्तिकस्वदर्शनाऽनुरागपरदर्शनद्वेषरहितेन, एवम्भूतस्य हि सुप्रतिपादं तत्त्वं भवति । तथा अघभीरुणा पातकभयशीलेन, एवम्भूतो ह्यसमञ्जसवक्ता न भवतीति, सहेति गम्यते, तत्त्वधिया = तत्त्वबुद्धया यः कथाबन्धः स धर्मवादो धर्मप्रधानो वादः प्रकीर्तितः || ४ || = वादिनो धर्मबोधादि विजयेऽस्य महत्फलम् । आत्मनो मोहनाशश्च प्रकटस्तत्पराजये ॥ ५ ॥ १. हस्तादर्शे 'तत्त्वेनाऽम..' इत्यशुद्धः पाठः । २. हस्तादर्शे 'प्रतिपदं' इति पाठः । ३. हस्तादर्शे ‘विनये' इत्यशुद्धः पाठः । - For Private & Personal Use Only ।।१३५ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy