________________
___ वादिन इति। वादिनो विजये सति, अस्य = प्रागुक्तविशेषणविशिष्टस्य प्रतिवादिनो धर्मः= श्रुत-चारित्रलक्षणस्तस्य बोधः = प्रतिपत्तिस्तदादि (=धर्मबोधादि)। आदिनाऽद्वेषपक्षपातर्वर्णवादादिग्रहः महत् = उत्कृष्टं फलं भवति, ततः = प्रतिवादिनः सकाशात् पराजये (तत्पराजये) चात्मनोऽधिकृतसाधोः मोहस्याऽतत्त्वादौ तत्त्वाद्यध्यवसायलक्षणस्य नाशश्च (=मोहनाशश्च) प्रकट इत्युभयथापि फलवानयमिति भावः ।।५।।
अयमेव विधेयस्तत्तत्त्वज्ञेन तपस्विना ।
देशाद्यपेक्षयाऽन्योऽपि विज्ञाय गुरु-लाघवम् ।।६।। अयमेवेति । तत् = तस्मात् तत्त्वज्ञेन तपस्विना, अयमेव = धर्मवाद एव विधेयः।
अपवादमाह - देशो = नगर-ग्रामजनपदादिः, आदिना काल-राज-सभ्य-प्रतिवाद्यादिग्रहः, तदपेक्षया = तदाश्रयणेन (=देशाद्यपेक्षया) गुरुलाघवं = दोष-गुणयोरल्पबहुत्वं विज्ञाय अन्योऽपि वादः कार्यः ।।६।।
अत्र ज्ञातं हि भगवान् यत्स नाऽभाव्यपर्षदि ।
दिदेश धर्ममुचिते देशेऽन्यत्र दिदेश च ।।७।। अत्रेति । अत्र देशाद्यपेक्षायां ज्ञातं = उदाहरणं हि भगवान् श्रीवर्धमानस्वामी, यत स न अभाव्यपर्षदि = प्रथमसमवसरणेऽयोग्यसदसि धर्म दिदेश । अन्यत्र 'चोचिते १. मुद्रितप्रतौ 'पक्षपातावर्ण' इत्यशुद्धः पाठः । २. 'विवाद' इति मुद्रितप्रतावशुद्धः पाठः । ३. हस्तादर्श 'अभव्य...' इति पाठः । ४. हस्तादर्श 'च त्रचि..' इत्यशुद्धः पाठः ।
||१३६।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org