SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Fvsh ।। प्रतिबोध्यजनकलिते देशे धर्म दिदेश ।।७।। ' विषयो धर्मवादस्य धर्मसाधनलक्षणः । स्वतन्त्रसिद्धः प्रकृतोपयुक्तोऽसद्ग्रहव्यये ॥८॥ _ विषय इति । धर्मवादस्य विषयो धर्मसाधनलक्षणः स्वतन्त्रसिद्धः = साङ्ख्यादीनां षष्टितन्त्रादिशास्त्रसिद्धः ।। ___ असद्ग्रहस्य = अशोभनपक्षपातस्य व्यये (=असद्ग्रहव्यये) सति, प्रकृतोपयुक्तः = प्रस्तुतमोक्षसाधकः, धर्मवादेनैवाऽसद्ग्रहनिवृत्त्या मार्गाऽभिमुखभावादिति भावः ।।८।। यथाऽहिंसादयः पञ्च व्रत-धर्म-यमादिभिः । पदैः कुशलधर्माद्यैः कथ्यन्ते स्वस्वदर्शने ॥९॥ यथेति । यथाऽहिंसादयः आदिना सूनृताऽस्तेय-ब्रह्मापरिग्रहपरिग्रहः पञ्च स्वस्वदर्शने व्रतधर्मयमादिभिः, तथा कुशलधर्माद्यैः पदैः कथ्यन्ते । तत्र 'महाव्रत पदेनैतानि जैनैरभिधीयन्ते। 'व्रत'पदेन च भागवतैः यदाहुस्ते “पञ्च व्रतानि पञ्चोपव्रतानि, व्रतानि यमाः । उपव्रतानि नियमाः” ( ) इति । धर्मपदेन तु पाशुपतैः यतस्ते दश धर्मानाहुः - “अहिंसा सत्यवचनमस्तैन्यं चाप्यकल्पना । ब्रह्मचर्यं तथाऽक्रोधो ह्यार्जवं शौचमेव च ।। ( ) सन्तोषो गुरुशुश्रूषा इत्येते दश कीर्तिताः"( ), साङ्ख्यैः- व्यासमतानुसारिभिश्च यमपदेनाभिधीयन्ते- “पञ्च १. 'परिग्रह' इति पदं मुद्रितप्रतौ नास्ति । गुरुशुश्रूषा ॥१३७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy