SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ यमाः पञ्च नियमाः। तत्र यमाः अहिंसा सत्यमस्तैन्यं ब्रह्मचर्यमव्यवहारश्चेति; नियमास्तु अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम्, अप्रमादश्च" ( ) इति । ___कुशलधर्मपदेन च बौद्धैरभिधीयन्ते, यदाहुस्ते → “दशाकुशलानि, तद्यथा- हिंसास्तेयाऽन्यथाकामं पैशून्यं परुषाऽनृतम् । सम्भिन्नाऽऽलापं व्यापादमभिध्या दृग्विपर्ययम् ।। पापकर्मेति दशधा कायवाङमानसैस्त्यजेत" ()- इति । अत्र चाऽन्यथाकामः = पारदार्य सम्भिन्नाऽऽलापः = असम्बद्धभाषणं, व्यापादः = परपीडाचिन्तनं, 'अभिध्या = धनादिष्वसन्तोषः परिग्रह इति यावत, दृग्विपर्ययो = मिथ्याभिनिवेशः, एतद्विपर्ययाच्च दश कुशलधर्मा भवन्तीति । आदिपदाच्च ब्रह्मादिपदग्रहः, एतान्येव वैदिकादिभिर्ब्रह्मादिपदेनाऽभिधीयन्ते इति ।।९।। मुख्यवृत्त्या क्व 'युज्यन्ते न वैतानि व दर्शने । विचार्यमेतन्निपुणैरव्यग्रेणाऽन्तरात्मना ।।१०।। मुख्येति । एतानि = अहिंसादीनि क्व दर्शने जैनादौ युज्यन्ते क्व वा दर्शने न' युज्यन्ते?' एतन्मुख्यवृत्त्या = अनुपचारेण निपुणैः = धर्मविचारनिष्णातैः(विचार्य=)विचारणीयं नाऽन्यद, वस्त्वन्तरविचारणे धर्मवादाऽभावप्रसङगात, अव्यग्रेण = स्वशास्त्रनीतिप्रणिधानादव्याक्षिप्तेन, अन्तरात्मना = मनसा, शास्त्रान्तरनीत्या ह्येकशास्त्रोक्तप्रकाराणामहिंसादी१. हस्तादर्श 'अधिभिध्या' इत्यशुद्धः पाठः । २. हस्तादर्श 'वेदि...' इति पाठः । ३. मुद्रितप्रतौ 'युज्ययन्ते' इत्यशुद्धः पाठः । ४. मुद्रितप्रती 'जैनादौ' पदं नास्ति । ५. हस्तादर्श 'न' पदं नास्ति । ६. हस्तादर्श '..पुणौ' इत्यशुद्धः पाठः। ।।१३८॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy