________________
नामयुज्यमानता' स्फुटमेव प्रतीयत इति स्वतन्त्रनीतिप्रणिधानेनैव विषयव्यवस्था विचार्यमाणा फलवतीति भावः ।।१०।।
ननु स्वतन्त्रनीत्यापि धर्मसाधनविचारणे प्रमाण-प्रमेयादिलक्षणप्रणयने परतन्त्रादिविचारण| मप्यावश्यकमिति व्यग्रताऽनुपरमे कदा प्रस्तुतविचाराऽवसर इत्यत आह
प्रमाणलक्षणादेस्तु नोपयोगोऽत्र कश्चन ।
तन्निश्चयेऽनवस्थानादन्यथाऽर्थस्थितेर्यतः ।।११।। प्रमाणेति । प्रमाणे प्रत्यक्षादि, तस्य लक्षणं स्व-पराऽऽभासिज्ञानत्वादि तदादेः, आदिना प्रमेयलक्षणादिग्रहः, तस्य (=प्रमाणलक्षणादेः) तु अत्र = धर्मसाधनविषये कश्चनोपयोगो न अस्ति ।
अयमभिप्रायः- प्रमाणलक्षणेन निश्चितमेव प्रमाणमर्थग्राहकमिति तदुपयोग इति। न चायं युक्तः, यतस्तल्लक्षणं निश्चितमनिश्चितं वा स्यात् ? आद्ये किमधिकृतप्रमाणेन प्रमाणान्तरेण वा ? यदि तेनैव तदेतरेतराश्रयः, अधिकृतप्रमाणाल्लक्षणनिश्चयः, तन्निश्चयाच्चाऽधिकृतप्रमाणनिश्चय इति । यदि च प्रमाणान्तरेण तन्निश्चयस्तदाऽऽह- तन्निश्चये = प्रमाणान्तरेण तल्लक्षणनिश्चये अनवस्थानात = तन्निश्चायकप्रमाणेऽपि प्रमाणान्तराऽपेक्षाऽविरामात् । १. मुद्रितप्रतौ 'अप्रयुज्य....' इत्यशुद्धः पाठः । हस्तादर्शानुसारेणात्र पाठो गृहीतः । २. हस्ताद” 'मान' इति त्रुटितः पाठः । ३. मुद्रितप्रतौ 'स्वतंत्रनित्या' इत्यशुद्धः पाठः । ४. हस्तादर्श 'अन्यता...' इत्यशुद्धः पाठः । ५. 'अत्र इति' पदं मुद्रितप्रतौ नास्ति । ६. हस्तादर्श 'स्यात्' इति पाठः । ७. हस्तादर्श 'अविरहात्' इति पाठः । हस्तादर्शान्तरे च ...विराहामात्' इत्यशुद्धः पाठः ।
॥१३९।।
Jain Education International
For Private & Personal use only
www.jainelibrary.org