________________
का
यदि च 'प्रमाणान्तरेणाऽनिश्चितमेव लक्षणं प्रमाणनिश्चये उपयुज्यते इतीष्यते तदाहअन्यथा = अन्यतोऽनिश्चितस्य लक्षणस्योपयोगे अर्थस्थितेः = अन्यतोऽनिश्चितेनैव प्रमाणेनाऽर्थसिद्धेः ।
तदुक्तं हरिभद्राचार्येण"प्रमाणेन विनिश्चित्य तदुच्येत न वा ननु । अलक्षितात्कथं युक्ता न्यायतोऽस्य विनिश्चितिः।। सत्यां चास्यां तदुक्त्या किं तद्वद्विषयनिश्चितेः । तत एवाऽविनिश्चित्य तस्योक्तिया॑न्ध्यमेव हि"।। (अष्टक-१३/६-७) ___इत्यमत्र प्रमाणलक्षणादेरनुपयोगः समर्थितः । इममेव सिद्धसेनसम्मत्या दृढयन्नाह यत ॥ इति यत आह वादी सिद्धसेन इत्यर्थः ।।११।।
प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः ।
प्रमाणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम् ॥१२।। प्रसिद्धानीति । प्रसिद्धानि = लोके स्वत एव रूढानि, न तु प्रमाणलक्षणप्रणेतृवचनप्रसाधनीयानि प्रमाणानि प्रत्यक्षादीनि, तथा व्यवहरणं = व्यवहारः = स्नान-पान-दहन-पचनादिका क्रिया, 'च'शब्दः प्रसिद्धत्वसमुच्चयार्थः तत्कृतः = प्रमाणप्रसाध्यः, प्रमाणलक्षणाऽप्रवीणानामपि गोपालबालाऽबलादीनां तथाव्यवहारदर्शनात् । १. हस्तादर्श 'प्रामाण्य...' इत्यशुद्धः पाठः ।
८/१२
(१४०।।
Jain Education International
For Private & Personal use only
www.jainelibrary.org