________________
ततश्च प्रमाणलक्षणस्य = 'अविसंवादि ज्ञानं प्रमाणमित्यादेः उक्तौ = प्रतिपादने ज्ञायते = उपलभ्यते न = नैव प्रयोजनं = फलम् । 'वर्तते नेति वक्तव्ये 'ज्ञायते नेति यदुक्तमाचार्येण तदतिवचनपारुष्यपरिहारार्थम् । ____ यस्त्वत्रायं उदयनस्योपालम्भः - “ये तु प्रमाणमेव सर्वस्य व्यवस्थापकं, न तु लक्षणं तदपेक्षायामनवस्थेत्याहुस्तेषां 'निन्दामि च पिबामि चेति न्यायापातः । यतोऽव्याप्त्यतिव्याप्तिपरिहारेण तत्तदर्थव्यवस्थापकं तत्तद्व्यवहारव्यवस्थापकं च प्रमाणमुपाददते, तदेव तु लक्षणम् । 'अनुवादः स' इति चेत् ? अस्माकमप्यनुवाद एव । ___न ह्यलौकिकमिह किञ्चिदुच्यते । न चानवस्था, वैद्यके' रोगादिलक्षणवद् व्याकरणादौ शब्दादिवच्च व्यवस्थोपपत्तेः, तत्रापि सम्मुग्धव्यवहारमाश्रित्य लक्षणैरेव व्युत्पादनादिति” (किरणावली-पृथिवीवैधर्म्यनिरूपण-पृष्ठ-१२३) ।। ___स त्वत्र न शोभते, यतो वयं प्रमाणस्याऽर्थव्यवस्थापकत्वे व्यवहारव्यवस्थापकत्वे वा लक्षणं न प्रयोजकमिति ब्रूमः, न तु सर्वत्रैव तदप्रयोजकमिति; समानाऽसमानजातीयव्यवच्छेदस्य तदर्थस्य तत्र तत्र व्यवस्थितत्वात् ।
सामान्यतो व्युत्पन्नस्य तच्छास्त्रादधिकृतविशेषप्रतीतिपर्यवसानेनानवस्थाऽभावात् । १. किरणावल्यां 'वैद्यकादौ' इति पाठो वर्तते । २. हस्ताद” 'व्यवस्थापकत्वे' इति पाठः त्रुटितः । हस्तादर्शान्तरे च 'व्यवहारव्यवस्थापकत्वे' इति पाठो नास्ति । ३. हस्तादर्श 'व्यवस्थित्वात्' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ '...प्रतीत्यप...' इत्यशुद्धः पाठः ।
495
॥१४१।।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org