SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ vote 'केवलं केवलव्यतिरेक्येव लक्षणमिति नादरः प्रमेयत्वादेरपि पदार्थलक्षणत्वव्यवस्थितेः इत्यन्यत्र विस्तरः। ___वस्तुतो धर्मवादे लक्षणस्य नोपयोगः, स्वतन्त्रसिद्धाऽहिंसादीनां तादृशधर्मान्तरसंशयजिज्ञासाविचारद्वारकतत्त्वज्ञानेनाऽसद्ग्रहनिवृत्तेः अन्यथैवोपपत्तेः । इतरभिन्नत्वेन ज्ञानस्य तत्साध्यस्याऽत्राऽनुपयोगात्सम्मुग्धधर्मिज्ञानेनैव' कार्यसिद्धे:२ इत्यत्र तात्पर्यम् ।।१२।। ____ नन्वर्थनिश्चयार्थमेव लक्षणोपयोगः, तेन ज्ञानप्रामाण्यसंशयनिवृत्तौ तन्मूलार्थसंशयनिवृत्त्याऽर्थनिश्चयसिद्धेः इत्याशङ्कायामाह न 'चार्थसंशयापत्तिः प्रमाणेऽतत्त्वशङ्कया । तत्राप्येतदविच्छेदाढेत्वभावस्य साम्यतः ।।१३।। ___ न चेति। न च प्रमाणेऽतत्त्वशङ्कया = अप्रामाण्यशङ्कया अर्थसंशयाऽऽपत्तिः लक्षणं विनेति गम्यं, तत्रापि = प्रमाणलक्षणेऽपि एतदविच्छेदाद् = अप्रामाण्यशङ्कायाः स्वरसोत्थापिताया अनुपरमात्, हेत्वभावस्य = शङ्काकारणाऽभावस्य साम्यतः = तुल्यत्वात्, प्रमाणलक्षण इव प्रमाणेऽपि शङ्काकारणाऽभावे शङ्काया अनुत्पत्तेरित्यर्थः ।।१३।। अहिंसादिधर्मसाधनग्राहकं हि प्रमाणं परेषां षष्टितन्त्रादिकं स्वस्वशास्त्रमेव, तत्र चाऽ१. मुद्रितप्रतौ 'संमुग्धज्ञानेनैव' इति त्रुटितः पाठः । २. मुद्रितप्रतौ ...द्धिरि..' इति पाठः । ३. हस्तादर्श 'चार्ध....' इत्यशुद्धः पाठः । ८/१३ (१४२।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy