________________
॥ हिंसादि ग्रहणांशे सर्वतन्त्रप्रसिद्धत्वेन न कदापि संशयस्तद्विशेषांशे तु भवन्नयमनुकूल एव ।
न चैकांशे शङ्कितप्रामाण्यं ज्ञानमितरांऽशस्याप्यनिश्चायकमिति युक्तं, घट-पटसमूहाऽऽलम्बनात घटांशे 'प्रामाण्यसंशये पटस्याप्यनिश्चयाऽऽपत्तेरित्याशयवानाह
अर्थयाथात्म्यशङ्का तु तत्त्वज्ञानोपयोगिनी ।
शुद्धार्थस्थापकत्वं च तन्त्रं सद्दर्शनग्रहे ।१४।। ___ अर्थेति । अर्थस्य = अहिंसादेर्याथात्म्यस्य = स्वतन्त्रप्रसिद्धनित्याश्रयवृत्तित्वाऽनित्याऽऽश्रयवृत्तित्वादेः शङ्का (=अर्थयाथात्म्यशङ्का) तु विचारप्रवृत्त्या तत्त्वज्ञानोपयोगिनी । ततश्च प्रतीयमानं शुद्धार्थस्य = सर्वथा शुद्धविषयस्य व्यवस्थापकत्वं = प्रमितिजनकत्वं (-शुद्धार्थस्थापकत्वं च) सद्दर्शनस्य = शोभनाऽऽगमस्य ग्रहे = स्वीकारे (सदर्शनग्रहे) तन्त्रं = प्रयोजकम् । तद्ग्रहे च तत एव धर्मसाधनोपलम्भात् किं लक्षणेनेति भावः ।।१४।।
तत्राऽऽत्मा नित्य एवेति येषामेकान्तदर्शनम् ।
हिंसादयः कथं तेषां कथमप्यात्मनोऽव्ययात् ।।१५।। ___ तत्रेति । तत्र = धर्मसाधने विचारणीये, आत्मा नित्य एव इति येषां साङ्ख्यादीनां एकान्तदर्शनं, तेषां हिंसादयः कथं मुख्यवृत्त्या युज्यन्त इति शेषः, कथमपि खण्डितशरीराऽव- ।।१४३ ।। १. हस्तादर्श 'ग्रहांशे' इति पाठान्तरम् । २. हस्तादर्श'..शेषांशेषां तु' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'शंकितप्रामाण्यज्ञा...' इति पाठः । ४. हस्तादर्श ‘प्रामाण्ये' इत्यशुद्धः पाठः । ५. हस्तादर्श 'क्षणमिति' इति पाठोऽशुद्धः प्रतिभाति ।
८/१५
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org