________________
यवैकपरिणामेनाऽपि आत्मनोऽव्ययाद् = अखण्डनात् । ____ न हि बुद्धिगतदुःखोत्पादरूपा हिंसा साङ्ख्यानामात्मनि प्रतिबिम्बोदयेनाऽनुपचरिता सम्भवति । न वा नैयायिकानां स्वभिन्नदुःखरूपगुणरूपा सा आत्मनि समवायेन, प्रतिबिम्बसमवाययोरेव काल्पनिकत्वात ।
न च कथमपि स्वपर्यायविनाशाऽभावे हिंसाव्यवहारः कल्पनाशतेनाप्युपपादयितुं शक्यत इति। तदिदमाह- "निष्क्रियोऽसौ ततो 'हन्ति हन्यते वा न जातुचित् ।
कञ्चित्केनचिदित्येवं न हिंसाऽस्योपपद्यते" ।। (अष्टक-१४/२) ।।१५।। मनोयोगविशेषस्य ध्वंसो मरणमात्मनः ।
हिंसा तच्चेन्न तत्त्वस्य सिद्धेरर्थसमाजतः ।।१६।। मन इति । 'मनोयोगविशेषस्य = स्मृत्यजनकज्ञानजनकमनःसंयोगस्य ध्वंस आत्मनो मरणम्, तद्धिंसा । इयं ह्यात्मनोऽव्ययेऽप्युपपत्स्यते । अतिसान्निध्यादेव हि शरीरखण्डनादात्माऽपि खण्डित इति लोकानामभिमानः, नाऽयं विशेषदर्शिभिरादरणीय' इति चेत् ? __न, तत्त्वस्य = उक्तध्वंसत्वस्य अर्थसमाजतः = अर्थवशादेव सिद्धेः, स्मृतिहेत्वभावादेव स्मृत्यजननाच्चरममनःसंयोगस्याऽपि संयोगान्तरवदेव नाशात् ।
तथा च नेयं हिंसा केनचित्कृता स्यादिति सुस्थितमेव सकलं जगत्स्यात् ।।१६।। १. हस्तादर्श 'हिन्ति' इत्यशुद्धः पाठः । २. हस्तादर्श ....खेरार्थ...' इति पाठः ।
||१४४।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org