________________
आत्मन एकान्तनित्यत्वाऽभ्युपगमे दूषणान्तरमाह
शरीरेणाऽपि सम्बन्धो नित्यत्वेऽस्य न सम्भवी ।
विभुत्वेन च संसारः कल्पितः स्यादसंशयम् ।।१७।। शरीरेणाऽपीति । नित्यत्वे सति अस्य = आत्मनः शरीरेणाऽपि समं 'सम्बन्धो न सम्भवी । नित्यस्य हि शरीरसम्बन्धः पूर्वरूपस्य त्यागे वा स्यादत्यागे वा ? आद्ये स्वभावत्यागस्याऽनित्यलक्षणत्वान्नित्यत्वहानिः, अन्त्ये च पूर्वस्वभावविरोधाच्छरीराऽसम्बन्ध एवेति । विभुत्वेन चाभ्युपगम्यमानेन हेतुना संसारोऽसंशयं कल्पितः स्यात् । सर्वगतस्य परलोकगमनरूपमुख्यसंसारपदार्थाऽनुपपत्तेः । अथवा विभुत्वे च संसारो न स्यात् । स्याच्चेद् ? असंशयं कल्पितः स्यादिति योजनीयम् । तदिदमुक्तं
"शरीरेणाऽपि सम्बन्धो नाऽत एवाऽस्य सङ्गतः ।। तथा सर्वगतत्वाच्च संसारश्चाप्यकल्पितः ।।" (अष्टक.१४/५) इति ।।१७ ।। परः शङ्कते
अदृष्टाद्देहसंयोगः स्यादन्यतरकर्मजः ।
.. इत्थं जन्मोपपत्तिश्चेन्न तद्योगाऽविवेचनात् ।।१८।। १. हस्तादर्श 'सम्बन्धो' नास्ति । हस्तादर्शान्तरे 'संधो' इति त्रुटितः पाठः । २. 'यः' इत्यशुद्धः पाठो मुद्रितप्रतौ। ३. मुद्रितप्रतौ 'श्च न' इति पाठः ।
८/१८
।।१४५।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org