________________
First
अदृष्टादिति । अदृष्टात् = प्राग्जन्मकृतकर्मणो लब्धवृत्तिकात् देहसंयोगोऽन्यतरकर्मजः स्यात्, आत्मनो विभुत्वेनोभयकर्माऽभावेऽपि देहस्य मूर्तत्वेनाऽन्यतरकर्मसम्भवादिति। इत्थं जन्मनः = संसारस्योपपत्तिः (= जन्मोपपत्तिश्चेत्), ऊर्ध्वलोकादौ शरीरसम्बन्धादेवोर्ध्वलोकगमनादिव्यपदेशोपपत्तेः ।
इत्थमपि विभुत्वाऽव्ययात् पूर्वशरीरत्यागोत्तरशरीरोपादानैकस्वभावत्वाच्च न नित्यत्वहानिः, एकत्र ज्ञाने नील-पीतोभयाऽऽकारवदेकत्रोक्तैकस्वाभाव्याऽविरोधात्, कार्यक्रमस्य च सामग्र्यायत्तत्वादित्याशयः। सिद्धान्तयति- 'न, तद्योगस्य = शरीरसंयोगस्याऽविवेचनात् (=तद्योगाऽविवेचनात्)। तथाहि- किमयमात्म-शरीरयोर्भिन्नो वा स्यादभिन्नो वा? आद्ये 'तत्सम्बन्धभेदादिकल्पनायामनवस्था । अन्त्ये च धर्मिद्वयाऽतिरिक्तसम्बन्धाऽभावेऽतिप्रसङ्ग इति ।॥१८॥
आत्मक्रियां विना च स्यान्मिताऽणुग्रहणं कथम् ।
कथं संयोगभेदादिकल्पना चापि युज्यते ? ।।१९।। आत्मेनि। आत्मनो यावत्स्वप्रदेशैरेकक्षेत्राऽवगाढपुद्गलग्रहणव्यापाररूपां क्रियां (=आत्मक्रियां) विना च मिताऽणूनां = नियतशरीराऽऽरम्भकपरमाणूनां ग्रहणं (=मिताऽणुग्रहणं) १. हस्तादर्श ‘स्वभा..' इति पाठः । २. हस्तादर्श 'नः' इति अशुद्धः पाठः । ३. मुद्रितप्रतौ .... स्यादभिन्नो वा' इति पदं नास्ति । ४. हस्तादर्श 'तत्सम्बन्धसम्बन्धभेदा...' इति पाठः । ५. हस्तादर्श 'च' नास्ति ।
८/१९
१४६ ।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org